SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ |२६३11 काका अपि विष्टां कुर्वति, अतो ममापि गच्छमध्यस्थितित: श्रेय इति विचित्य स पश्चाद्वलित्योपाश्रये समागतो मनसंव च स्वातिचारस्यालोचना तेन गृहीता। शुद्धं चारित्रं प्रपाल्य प्रांतेऽनशनं विधाय स देवलोके गतस्ततश्च्युतोऽसावाभीरकुले समुत्पन्नः । क्रमेण च यौवनं संप्राप्तः पिया कन्ययकया सह परिणायितः । क्रमेण च तस्यका पुत्री जाता, सा यौवनं प्राप्यातीवरूपलावण्योपेता बभूव । अथैकदा स आभीरो घृतभाजनानि शकटे संस्थाप्य तां निजपुत्रीं च सारथीकृत्य घृतविक्रयाय नगरं प्रति चलितः, सार्थे केचिदन्येप्याभीरा घृतभाजनभूतानि निजनिज शकटानि समादाय नगरं प्रति प्रस्थिताः । पथि ते यो वनोन्मत्ता आभीरास्तां महारूपवतीमाभीरपुत्री चपलरिभविलोकयामासस्ततस्तेषां व्यरचेतसां काटायपि तत्स्पर्द्धयेवोन्मार्गगामीनि बभवः । पतितानि चावटमध्ये भग्नानि च तेषां मनोभिः सार्द्ध घनभाजनानि । तद् दष्ट्वा तस्याभीरस्य मनसि बैराग्यभावः समुल्ल स्तितस्ततोऽसौ क्रमेण नगरे समागत्य घृतविऋयं च कृत्वा निजग्रामे समागतस्ततोऽसौ निजपत्री केनाप्याभोरेण सह परिणाय्य तम्म जामागे च गृहधनादि सर्व समर्प्य स्वयं सद्गुरुसमीपे दीक्षां जग्राह । ततो योगोहनक्रियासमये तेनोत्तराध्ययनानि पठितुमारब्धानि । अध्ययन गयाभ्यासानंतरं तस्य ज्ञानावरणीयकर्म समदितं, तेनासावने पदमप्युच्चारयितं समयों नाभूत तदा तेन बिनपावनतेन गुरवः पृष्टा-हे भगवन् । मयि कृपां विधाय ज्ञानावरणीयकर्मक्षयायोपायमादिशवं? गुरुणोक्त-हे महानुभाव ! त्वमाचाम्लतपः करणपूर्वकं 'मा रुष मा तुषेति' पदं पठ ! तथेति कृत्वा तस्प्रतिपन्नम् ।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy