________________
श्री
दानादिकुलक
शील कुलकम्
वत्तिः
अचंकारी
कथा
11१७६॥
कर्तमुत्सूकोऽभूत्परं मयतनं मानितं । तदा मम शीलं दृष्ट्वा शापभीतेन तेनाहं सार्थवाहाय विक्रीता । सार्थवाहेनापि भार्याकृते मम गाढप्रार्थना कृता । परं मां दृढचित्तां विज्ञाय क्रुद्धेन तेनाहं बर्बरकुले विक्रीता । तत्रानार्यलोकर्मम रुधिरं निष्कास्य वस्त्राणि जितानि । एवं प्रतिदिन करणसोहं तत्र दुर्बला जाता ।
अर्थकदा व्यापारार्थमागतेन मम भ्रात्रा बहुद्रव्यव्ययेनाहं तेभ्यो व्याधेभ्यो मृगीव मोचिता। ततस्तेनात्रा-R मत्याहं पुनर्भत्र समपिता । अतः कारणात् हे भगवन् ! मम क्रोधकरणे नियमोऽस्ति । तत् श्रुत्वातिहृष्टाः साधवस्तलमादायोपाश्रये प्राप्ता । अथ तस्य क्षमागुणन तुष्टेन देवेन प्रत्यक्षीभूयोक्त-हे सुशीले ! मया तव क्षमापरीक्षार्थ त्रयो घटा भग्ना अतो मां क्षमस्व ! इत्युक्त्वा तस्या घटांस्तैलपूर्णान् सञ्जीकृत्य स स्वस्थाने गतः । अञ्चकारीभट्टापि प्रांते क्षमायुक्त शुद्धशीलाराधनपूर्वक कालं कृत्वा सद्गतौ गता। इति श्री शोलकुलके अचंकारोभट्टाकथा । नियमित्तो नियभाया, नियजणऊ नियपिअमहो वावि । नियपुत्तोवि कुसोलो, न बल्लहो होइ लोआणं ॥१७॥ ___व्याख्या-कुशील: शीलरहितो निजसुहृद् निजभ्राता निजजनको निजपितामहो वा निजपुत्रोऽपि लोकानां वल्लभो न भवतिः ॥१७॥ सवेसिपि वयाणं, भग्गाणं अत्थि कोइ पडिआरो । पक्वधउस्सव कन्ना, नाहोइ सोलं पुणो भग्गं ॥१८॥
व्याख्या-प्राणातिपातादिसर्वेषामपि व्रतानां कदाचिदज्ञानतया भग्नानां कोऽपि प्रतिकारोऽस्ति, अर्थात्तेषां प्रायश्चित्तेनापि शुद्धिर्भवति, परं पक्वघटकर्णबद्भग्नं शीलं कदाचिदपि नो सब्जीभवति, तस्मात् शीलं निरतिचार
1१७६॥