________________
11१६७॥
वासिङ्करप्राणिभिर्भवितव दश्यते । ततो राज्ञा भयकंपमानदेही व्याधः प्रोक्तो-भो भद्र ! त्वं भयं मा कुरु । यदहं त्वां प्रति पृच्छामि तस्य स्वया सत्यमत्तरं देयं । त्वं कोऽसि कुतश्च स्वयतलब्ध ? भयकंपितहुदयो व्याधः स्खलद्वचनो बभाण-हे राजन ! अहं ज्ञातितो मगयूरस्मि। बनमध्ये पाश मुक्त्वानेकजलचरस्थल चरखेचरजीवान मारवामि, यतोऽऽस्माकं कलक्रमागतमेतदेव कर्मास्ति ।
अर्थकदाहं वनवासिपशुमारणार्थ मलयाचले गतः । तत्रानेकचंदनतरुभिरलंकृतं सरभिवातोन्माथितपथश्रम नंदनवनोपमं मयंक काननं दृष्ट्वा तत्र प्रविष्ट । तर्णमेव मयको महासो निजेच्छयेतस्ततो भ्रमंश्च दृष्टः । तस्य फणोपरि च घनतरुनिकरविस्तृतगहन गहनांधकारापहारिणं मनोहरं मणिमेकं दृष्ट्वा मन:प्रादुर्भूततद्ग्रहणाभिलाषण करालकरबालो मया निःकोषीकृतः । यावच्चाहं तस्य मारणाय धावितस्तावत्पृष्टं निकटस्थ घनवृक्षालिनिकुंजान्मा । मेति शब्दो मे श्रवणगोचरीवभव । बलितकंधरेण मया पळे विलोकित, तदैवको निज मनोहररूपनिलंगीकृतमकरध्वजश्चंद्रबिंबानुकारिवदनमंडल: कोमलकमलानुकारिकरुणारसार्दीभूतविलोचनो द्वात्रिशल्लक्षणलक्षितदेहो मया तापसकुमारो दृष्टः । तं दृष्ट्वा मया पुष्टं, भो तापसकूमार ! मणिप्राप्त्यर्थ सर्पमारणाय समद्यतं मां त्वं कथं निवारयसि ? एवंविधममूल्यमणिरत्नं पुनर्मया क्व लभ्यते ? तत् श्रुत्वा करुणारसैकनिर्मितांतःकरणेन तापस. कुमारेणोक्तं, यदि तव मणिरत्नग्रहणेच्छास्ति तहि क्षणं त्वं प्रतीक्षस्व । अहं तुभ्यमेताहग्भूरिमणिरत्नगर्णयुतमाभुषणं मम मातु: पाश्र्वादानीय दास्यामि । तस्यैतानि मनोहरवचनानि श्रत्वा मयापि करवाल: कोषे निक्षिप्तः ।
।।१६७॥