________________
।।१६१॥
अर्थकदा नंदीश्वरयात्रायामनेके विद्याधराः संमिलितास्तत्रांजनकेतराज्ञा पवनंजयकुमाररूपमालोक्य तेन सहाजनसन्दर्या विवाहो मेलितस्ततः सर्वे यात्रा विधाय निज निजगृहे समेताः । पवनंजयेन स्वमित्ररुपमदत्तायोक्तंलग्नदिवसो दूरेऽस्ति, ततोजनारूपविलोकनायावा तश गमिष्यावः । इत्युक्त्वा स प्रच्छन्नतयाकाशमार्गेण मित्रयुतस्ता समागतः । तदांजनसुन्दरी निजसखीयुता गवाक्षस्थितासीत् । सख्योक्त-हे अंजने ! पूर्व त्वदर्थ यो दत्तकुमारो वरो विलोकितः स स्वल्पायुर्दोषयतो बभूव । तेन तं विहाय तव विवाहः पवनांजयेन सह मेलितः ।। अंजनयोक्त-हे सखि ! स्तोकमप्यमतं समीचीनं, बह्वपि विषं तु कष्टदमेव । प्रच्छन्नस्थितः पवनंजयस्तद्वचः श्रुत्वा कुपितः करवालं गृहीत्वा तस्या वधकृते सजीभूतः, परं मित्रोण निवारितः । ततस्तौ द्वावपि स्वस्थाने समागतौ । अथ लग्नदिबसे महोत्सवपूर्वक तयोविवाहो जातः, परमंतःकोपानलज्वलितं पवनंजयं विजाय कमलसुकुमालांजनासुन्दरी म्लानि प्राप तथापि सा निज तिव्रत्तत्वैकतत्परा भर्तुर्भक्ति कुर्वाणा स्वकर्मणामेव दोषं ददाति । अर्थकदा पवनंजयः पितुरादेशारुणेन सह युद्ध कर्तुं समुद्यतस्य निज मिशस्य रावणम्य सहायार्थ भूरिसैन्यं गृहीत्वा मित्रयुतः प्रयाणाभिमुखो बभूव । तदासौ निजमातरं नंतुं समागतः, परं तत्र स्थितामंजनां दृष्ट्याप्यनालोक्य PH मातरं नत्वा प्रयाणमकरोत् । तदांजनसुन्दरी मनस्यतीव दूना नयनांबुदनिर्गताश्रुधाराभिनिजकर्ममलं क्षालयंतीव रुदनं चकार ।
अथ पथि पवनजयोऽनेकराजहंससंचयालंकृतकमलजालं स्फटिकामलजलांतर्गतप्रकटदृश्यमानशौक्तिकेय-कदंब
॥१६॥