________________
||७||
व्याख्यायते, यथा--
इहात्र जंबूद्वीपे पश्चिममहाविदेहक्षेत्रे क्षितिप्रतिष्ठं नाम नगर, प्रसन्नचंद्र राजा राज्यं करोति । तत्र नगरे राजमान्यो धननामा सार्थवाहः परिवसति । स च दाताशिरोमणिः परोपकानिपुणा महाबनश्चि, नेकदा नगरमध्ये उद्घोषणा दापिता, बसंतपुरंप्रति वयं गमिष्यामो, यस्य कस्याप्यागमने छा भवेत्तदा सोसमामाथें मुखेनायातु । अन्यच्च येषां केषामपि संबलादि न म्यात मत्साकाशासंबलादिवस्तुनि गहत । इत्यादि कथिते सति बहवो लोकारतत्साथै समागमयितुमारब्धाः । तस्मिन्समये श्रीधघोषसुरयोऽपि धनसार्थवाहसमीपे समागताः । सार्थवाहेन गरवो वंदिताः, पृष्टं च स्वामिन् ! किमर्थ समागताः ? गुरुभिः प्रोक्तं वयमपि बसंलपुरे भवत्सार्थे समागमिष्यामः । इति गुरुववः श्रुत्वा सार्थवाहेनोक्त-हे स्वामिन् ! मम भाग्यं महत्संजातं । इत्युक्त्वा तेन स्वसूपकाराय प्रोक्तं-गुरुनिमित्तं भोजनादिचितां कुरु । गुरुणा प्रोक्तं-तद्भोजनमस्माकमकल्पनीयमस्ति ।
अथास्मिन्प्रस्तावे तत्र सार्थवाहममी केनचित्सेवकेनाम्राण्यानीय ढौकितानि । तान्या म्राणि स गरुभ्यो दातुं लग्नः । तदा गुरुभिः प्रोक्तं-एतान्यायकल्पनीयानि, वयं सचित्तफलानि न भक्षयामः । एवं गुरूणां निस्पहस्वादिगुण रंजित: सन् स धनसार्थवाहः स्वचित्तेऽत्यंतमानंदितः । ततोऽनंतरं स सार्थवाहो गुरुसहितश्चलितः । पथि गच्छति सति कतिचिहिनेषु व्यतिक्रांतेषु सत्स वर्षानतः समायाता । तदा सर्वेऽपि लोकास्तत्रारण्यमध्ये एव स्थिताः । केनचित् सार्थवाहमित्रेण श्रावणात्मवसनार्थ तृणगहं कृतं । तर श्रीधर्मघोषसूरयः सुखेन स्थिताः स्वाध्यायादि
१७॥