SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ॥१०५॥ वाणी जाता । ततो राज्ञा निजराज्ञी: सतीशेखरा मत्वाहताः, किं तु तास्वेकापि तत्कार्यं कर्तुं न शक्ता जाता । ततो राज्ञा पटहोदधोषणा कारिता यनगरमध्ये या कापि सती भवेत्तयैतत्कार्यं कृत्वा नगर जनदुःख दूरीकर्तव्यं, परं नगरनारीमध्यात्कापि तत्कायं कर्तुं समुद्यता नाभूत । सदा सुभद्रया कायोत्सर्ग पारयित्वा श्वश्रूप्रति कथित-हे मातर्यदि भवदाज्ञा चेतदाहमेतत्कार्य विधाय नगरलोकान् संकट रहितान करें । तत श्रुत्वा हृदय गतेोद्गारानिष्कासयंतीव सावदत्-हे सतीमन्ये ! मया तु प्रथमत एव तव सतीवं ज्ञातं, अधुना लोकानां तद्ज्ञापने किमपि प्रयोजनं नास्ति, अतो गृहमध्यस्थितैव सब सतीत्वं पालय ? मास्मानपि व्रीडापात्रं कुरु । श्रुता च मया पूर्वमपि जैनानां पाखंडा:। सुभद्रा तु मौनमाधाय तद्वचास्यवगणय्य स्नानं कृत्वा पवित्रयवाणि परिधाय पंचपरमेष्टिध्यानं कुर्वती नपसमीपे प्रामा । राज्ञोक्त-हे भगिनि ! नगरलोक संकटविमुक्त कृत्वा तव सकल सतीशिरोमणित्वं प्रकटीकुरु ? ततः सा नपादिनगरलोकपरिवृता कुपोपकंठमागत्य सूत्रतंतुबद्धचालित्या मिलितलोकोत्कंठया सह कूपाज्जलमाचकर्ष । अथ तज्जलमादाय प्रतोलोपावे समागत्य तथोक्तं यदि मया मनोवाक्कायाभिरखंडितं शीलं पालितं भवेत्तहि प्रतोलीकपाटा उद्घटत । इत्युक्त्वा तया प्रतोलीकपाटी सिंचितौ तत्क्षणमेवचोद्घटितौ । इत्थं तया प्रतोलीत्रयकपाटा उद्घाटिताः, गगनांगणागतागणितदेवबंदर्दुदृभिनादपूर्वक जन-11 जयारावमुच्चरद्भिस्तस्या उपरि पुष्पवृष्टिविहिता । ततस्तयोक्तमथ चतुर्थप्रतोलीकपाटो या कापि स्त्रकीयसतीत्वख्यापनोत्सुका चंपायां भविष्यति संवोद्घाटयिष्यति । एव तत्सतीत्व दृष्ट्वाऽपारप्रमदोलसितमानसा नृपादयो
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy