________________
प्रवचनसारोद्धारे सटीके
६३ द्वारे निर्ग्रन्थपंचक गाथा
॥६१८
प्र.आ.
प्पश्चाशत् प्रविष्टाः, अन्यस्मिन्नपि समये एतावन्तः अपरस्मिन्नपि समये एतावन्तः प्रविष्टाः ! एवं नानासमयप्रविष्टान् सर्वानप्यङ्गीकृत्य सर्वस्मिन्नप्यन्तमुहूर्तमाने उपशमश्रेणिकाले सामान्येन सस्मिन्नति मनुष्यक्षेत्रे कदाचिदुत्कृष्टतः सहयाता उपशान्तमोहाः प्राध्यन्ते । ततः परमुपशमश्रेणेनिरन्तरमभावात् । असङ्ख्येयाः कथममी न प्राप्यन्ते ? इत्यायाक्षेपपरिहारौ पूर्ववद्वाच्याविति ।।७२७॥
अथ स्नातकमाह --'सुहझाण' गाहा, शुभं-प्रशस्त ध्यान- 'शुक्लध्यानलक्षणम् , तदेव कर्ममलापेक्षया-घातिकममलपटलाक्षालनापेक्षया जलं--सलिलम् , तेन विशुद्धो-निर्मला स्नातक इति भण्यते । क्षालितसकलपातिकर्ममलपटलत्या स्नात इव स्नातः, स एव स्नातकः केवलीत्यर्थः । स च द्विविधो निर्दिष्टः-सयोगी अयोगी च, तत्र मनोवाक्कायव्यापारवान अयोगी, सईया हमुच्छिन्नमनो-चाक्कायव्यापारस्त्वयोगी । एतेषां च पुलाकादीनां व्याख्याप्रज्ञप्तौ पन्नवणवेय' शतक २५, उ.६, मू.७५१] इत्यादिग्रन्थोक्तैः पट्त्रिंशता द्वारे विचारोऽस्ति |७२८॥
तत्र बहुतरोपयोगित्वात शेपद्वारोपलक्षणार्थ प्रतिसेवनाद्वारमाह-'मूलुत्तरगुण' गाहा, मूलगुणा:-- प्राणातिपातनिवृत्यादयः, उत्तरगुणाः-पिण्डविशुद्ध्यादयः, तद्विपया 'प्रतिसेवा' सेवा-सम्यगाराधना तत्प्रतिपक्षस्तु प्रतिसेवा विराधनेत्यर्थः । 'सेवपत्ति सूचकत्वात्सूत्रस्य प्रतिसेवना कुशीले पुलाके च । अयमर्थ:-पुलाकप्रतिसेवना कुशीलप्रतिसेवना, मूलगुणानामुत्तरगुणानां चान्यतमस्य विराधना । तत्वार्थभाष्ये तु-"प्रतिसेवना पश्चानां मूलगुणानां रात्रिभोजनविरतिषष्टानां पराभियोगाद् बलात्कारेणा• १ तुलना-धर्मसं. बृत्तिः मा २ पृ. १५३ ।।
|॥६
॥