________________
प्रवचन
सारोद्वारे
सटीके
॥२८२॥
'चभागं च भागो तिन्निय चडभाग पलियचउभागो ।
तिण्णेव य चउभागा पडत्य भागो य च भागो ॥४३१॥
'पुरी' त्यादि गाथाद्वयम् इह हि चतुर्विंशतिस्तीर्थकृतां त्रयोविंशतिरेवान्तराणि भवन्ति, यथा चतसृणामङ्गुलीनां त्रीण्येवान्तराणि तत्र पूर्वेषु श्री ऋषभादीनां सुविधिपर्यन्तानां नवानां तीर्थकृतां सम्वन्धिषु अष्टसु अन्तिमेषु च शान्तिनाथादीनां महावीरान्तानां नवानां जिनानां सम्बन्धिषु अष्टस्वन्तरेषु 'तीर्थस्य' चतुर्वर्णस्य श्रमणसङ्घस्य नास्ति व्यवच्छेदः, 'मल्लिएसु' ति मध्यवर्तिषु पुनः सुविधिप्रभृतीनां शान्तिनाथपर्यन्तानां तीर्थकृतामन्तरेषु सप्तसु एतावन्मात्रं वक्ष्यमाणं कालं यावतीर्थस्य arode: । तदेवाह - 'चउभार्ग' इत्यादि, सुविधि - शीतलयोरन्तरे पल्योपमस्य चतुर्भागीकृतस्य एक तुर्भास्वत्कालं तीर्थव्यवच्छेदः, अर्हद्धर्मवार्ताsपि तत्र नष्टेत्यर्थः तथा शीतल- श्रेयांसयोरन्तरे पोपमस्य चतुर्भागस्तीर्थव्यवच्छेदः तथा श्रेयांस वासुपूज्ययोरन्तरे पत्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः, तथा श्रीवासुपूज्य विमलजिनयोरन्तरे पन्योपमस्य चतुर्भागस्तीर्थ व्यवच्छेदः, तथा विमला - ऽनन्तजिनयोरन्तरे पल्योपमसम्बन्धिनस्त्रयश्चतुर्भागास्तीर्थव्यवच्छेदः तथाऽनन्तधर्मयो योपमस्य चतुर्भागस्तीर्थव्यवच्छेदः, तथा धर्म - शान्तिनाथयोरन्तरे पत्योपमचतु
रन्तरे *
१ केचित्पल्योपमान्याहुः पत्यतुर्याशकास्पदे || लो. प्र. ३२-१०२६॥ तथाहुः सप्ततिशतस्थानके -' इग-ड्रग-तिग-तिगइस गारपलिअचभागे । बिंति ने इस पढिए सुबिहाइसु सन्ततित्यंते (गाथा २५३) लो. प्र. ॥३२-१०२७॥ २ पस्योपमस्य चतुर्भागीकृतस्य चतुर्भाग० सु. ॥३०रंतरा०-मुः ॥
३६ द्वा तीर्थविच्छेद
कालः
गाथा
४३०
४३१
प्र.अ.
१०३
॥ २८२ ॥