SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ न्यायरत्न : न्यायरत्नावली टीका पंचम अध्याय, सूत्र ३६ वैधदृष्टान्ताभासोऽप्यवमेत्र नवविधं एवं कथमिति चेदाह साध्यादिना यह पूर्व असिद्ध संदिग्ध १८ योगाद् पश्चात् व्यतिरेकशब्दप्रयोगाच्च तत्र नवविधत्वमित्यं भवति-असिद्ध साध्यव्यतिरेकः असिद्ध साधन व्यतिरेकः, असिद्धो भयव्यतिरेकः संदिग्धसाध्य व्यतिरेकः, संदिग्ध साधनव्यतिरेकः, संदिग्धो भयव्यतिरेकः अव्यतिरेकः आदिना अप्रदर्शितव्यतिरेकः विपरीतव्यतिरेकश्च गृह्यते तत्रासिद्धसाध्यव्यतिरेको वैधर्म्यदृष्टान्ताभासो यथा तेषु प्रमाणेषु अनुमानं प्रमाणं प्रान्तं प्रमाणत्वात् यद् भ्रान्तं न भवति तत् प्रमाणमपि न भवति यथा स्वप्रज्ञानमित्यादौ वैधर्म्यदृष्टान्तरूपेणोपन्यस्ते स्वप्नज्ञाने भ्रान्तत्य रूपसाध्य व्यतिरेकस्य भ्रान्तत्वाभाव रूपस्याभावात् साध्यव्यतिरेकस्य तत्रासिद्धतयाऽमि साध्यव्यतिरेक रूपोऽयं वैधम्र्म्यदृष्टान्ताभासः असिद्धसाधनव्यतिरेको वैधर्म्य दृष्टान्ताभासो यथा निर्विकल्पकं ज्ञानं प्रत्यक्षं प्रमाणत्वात् यन्न निर्विकल्पकं ज्ञानं तन्न प्रमाणं यथानामित्याची वैधष्टान्तरूपेोपन्यस्तेऽनुमानात्मकज्ञाने प्रमाणत्वाभावभावरूपस्य साधनव्यतिरेकस्याभावात् साधनव्यतिरेकस्य तत्रासिद्धतया असिद्ध साधनव्यतिरेकोऽयं वैधर्म्य दृष्टान्ताभामः सद्भ े तुजन्मानुमानात् प्रमाणत्वस्याव्यावृतत्वात् । एवमसिद्धसाध्यसाधनोभयव्यतिरेको वैधर्म्यदृष्टान्ताभासो यथा शब्दः कथञ्चिन्नित्यानित्यः सत्वात् योन कथञ्चिन्नित्यानित्यात्मकः स न सत् भवति यथा स्तम्भः इत्यादी वैधदृष्टान्तम्पेणोपन्यस्ते स्तम्भे कथञ्चिन्नित्यानित्यत्वरूप साध्याभावप्य सत्त्वरूप साधनाभावस्य चासिद्धत्वेन तथाविध साध्यसाधनोभयस्यैव तत्र सद्भावेन असिद्ध साध्य साधनोभयव्यतिरेको नाम वैधर्म्य दृष्टान्ताभासः अथ संदिग्ध साध्यव्यतिरेको वैधर्म्यदृष्टान्ताभासो यथा 'कपिलः असर्वज्ञः अनाप्तो वा अक्षणिकान्तवादित्वात् यः सर्वज्ञः आप्तो वा भवति स क्षणिककान्तवादी भवति यथा बुद्धः इत्यादौ वैधर्म्यदृष्टान्तरूपेणोपन्यस्ते बौद्ध सर्वज्ञत्वाभावरूप साध्यव्यतिरेकस्य सर्वज्ञत्वस्य अनाप्तत्वभावरूपसाध्य व्यतिरेकस्य आप्तत्वस्य वा संदिग्धत्वेन संदिग्ध साध्यव्यतिरेको नाम वैधर्म्यदृष्टान्तानासो भवति बुद्ध सर्वज्ञत्वस्य आप्तत्वस्य वा संदिग्धत्वात् संदिग्धसाधनव्यतिरेको वैधदृष्टान्ताभासो यथा - अयं पुरुषः अश्र यवचन: रागद्वेषादिमत्वात् यः श्रद्धयवचनो भवति स वीतरागद्वेषो भवति यथा बौद्धः गौद्धोदनिरित्यग्दे वैधर्म्यं दृष्टान्तरूपेणोपन्यस्ते शौद्धोदनो राग प्रादिमत्वरूप साधनाभावस्य वीतरागद्र षत्वस्य संदिग्धता संदिग्ध साधनव्यतिरेको नाम वैधर्म्यदृष्टान्ताभासः एवं संदिग्ध साध्यसाधनोभयव्यतिरेको बैधर्म्यदृष्टान्ताभासो यथा – कपिलो न वीतरागः कृपापात्रेष्वपि परमकरुणतयाऽतर्पित स्वमांसखण्डत्वात् यो वीतरागो भवति स परम करुणतया कृपापात्रेषु समर्पित स्वमांस खण्डो भवति यथा तपनबन्धुः कश्चिन्मुनि विशेषः इत्यादी वैधर्म्यदृष्टान्तरूपेणोपन्यस्ते मुनिविशेषे तपनबन्धो वीतरागाभावाभावस्य साध्याभावस्य वीतरागत्वरूपस्य कृपापात्र ष्वपि परमकरुणतयाऽर्पित स्वमांसखण्डत्वम्य साधनाभावस्य च संदिग्धतया संदिग्ध साध्य साधनोभयव्यतिरेको वैधर्म्यदृष्टान्ताभासः एवमेव अव्यतिरेको वैधदृष्टान्ताभासो यथा -- अयं पुरुषो वीतरागो नास्ति वक्त त्वात् यो वीतरागो भवति न वक्ता भवति यथा प्रस्तरखण्डः इत्यादी वैधर्म्यदृष्टान्तरूपेणोपन्यस्ते प्रस्तरखण्डे साध्यव्यतिरेकस्य वीतरागत्वरूपस्य वक्त. वभावरूपस्य साधनव्यतिरेकस्य च सद्भावेऽपि यत्र यत्र वीतरागत्वं तत्र तत्र वक्तृत्वाभावः इत्येवं व्यतिरेक व्याप्तेरभावात् अव्यतिरेको नाम वैधदृष्टान्ताभासः अप्रदर्शितव्यतिरेको वैधम्येहृष्टान्ताभासो यथा शब्दोऽनित्यः कृतकत्वान् गगनवत् इत्यादौ वैधर्म्य दृष्टान्तरूपेणोपन्यस्ते गगने यदनित्यं न भवति तत् कृतकमपि न भवति इत्येवं रूपा यद्यपि व्यतिरेकव्याप्तिरस्ति तथापि वादिना सा स्ववचनेन न प्रदर्शिता तस्मात् अप्रदर्शितव्यतिरेको नाम वैधर्म्य हृष्टान्ताभासः एवं विपरीत व्यतिरेको वैधदृष्टान्ताभामो यथा शब्दोऽनित्यः कृतकत्वात् यदकृतकं तन्नित्यं यथा - गगनमित्यादौ वधर्म्य दृष्टान्तरूपेणोपन्यस्ते गगने यन्नित्यं तदातकमित्येव व्यतिरेक प्रदर्शनीये यदकृतकं तन्नित्यम् इत्येवं तद्वैपरीत्येन प्रदर्शितत्वात् विपरीत व्यतिरेको नाम वैधर्म्यदृष्टान्ताभासो भवतीत्यसैयम् ||३६|| १६२
SR No.090312
Book TitleNyayaratna Sar
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherGhasilalji Maharaj Sahitya Prakashan Samiti Indore
Publication Year
Total Pages298
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy