SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ १६० न्यायरत्न : न्यायरत्नावली टीका : पंचम अध्याय, सूत्र ३५ और साधन का दोनों का सद्भाव है परन्तु फिर भी उसने जो-जो कृतक होता है वह वह अनित्य होता है ऐसी अन्य व्याप्ति न कहकर जो-जो अनित्य है वह-बह कतक होता है ऐसी विपरीत अन्वय व्याप्ति कही है और उसमें दृष्टान्त घट का प्रदर्शित किया है। अतः यह विपरीतान्वय नाम का दृष्टान्ताभास है। सूत्र-साधर्म्य दृष्टान्ताभासो नवविधः साध्यसाधनोभयधर्मविकलः संदिग्ध साध्यसाधनोभयानन्वया प्रदर्शितान्वयाविपरीतान्वयभेदात् ।। ३५. 11 संस्कृत टीका-अनूमानाभासप्रसङ्गेन पक्षाभासहेत्वाभासयोनिरूपणं विधायाधुना तत्प्रसङ्गादेव दृष्टान्ताभासं निरूपयति सूत्रकारः-साधर्म्यवैधर्म्यभेदाभ्यां दृष्टान्तस्य वैविध्यं प्रोक्तमतो दृष्टान्ताभासोऽपि साधर्म्यदृष्टान्ताभास वैधर्म्यदृष्टान्ताभासभेदेन द्विविध एव तत्र दृष्टान्तामासः कतिविधः इत्यारेकायां स नवविध इत्युत्तरयता सूत्रकारेण नबविधत्वमेव तस्य प्रदर्श्यते । तथाहि -(१) साध्यधर्म बिकलः, (२) साधनधर्मविकलः, (३) साध्यसाधनोभयधर्मविकलः, (४) मंदिग्धसाध्यधर्मा, (५) संदिग्धसाधनधर्मा, (६) संदिग्धसाध्यसाधनोभयधर्मा, (७) अनन्वयः (८) अप्रणिताम्वयः, (६) विपरीतान्ययश्चेति नत्र "शब्दो नित्यः अमूर्तत्वात् दुःख बत्" इत्यत्र दुःखात्मके दृष्टान्ते नित्यत्वात्मकसाध्यस्याभावात् नित्यत्वरूपसाध्यधर्मविकलो नाम दृष्टान्ताभासः, दुःखस्व पुरुषादिवृत्त पापकर्मजन्यतया नित्यत्वाभावात् एवं शब्दोनित्यः अमूर्तत्वात् परमाणुवत् सत्यादौ परमाणुरूपे दृष्टान्ते नित्यत्वात्मकसाध्यस्य सत्त्वेऽपि अमूर्तस्वरूप हेतोरभावेन अमूर्तत्वरूपसाधनविकलो नाम दृष्टान्ताभासः, एवं शब्दोनित्यः अमूर्तत्वात् घटवत् इत्यादी घटात्मके दृष्टान्ते नित्यत्वात्मक साध्यस्यामूर्तत्वरूपहेतोपचासद्भावेन साध्यसाधनोभयधर्म विकलो दृष्टान्ताभासः एवमेव अयं पुरुषो रागादिमान् वक्त त्वाज्जिनदत्तवत् इत्यादौ जिनदत्तात्मके दृष्टान्ते रागादिरूप साध्यस्य संदिग्धत्वात् संदिग्धसाध्यधर्मो नाम दृष्टान्ताभासः अन्यजनोमनोविकारस्याप्रत्यक्षतया जिनमते दृष्टान्ते रागद्वेषादयः सन्ति नवेति सन्देह सत्त्वात् एवमेवायं पुरुषो मरणधर्मा रागद्वेषादिमत्वात् देवदत्तवत् इत्यादी देवदत्तात्मके दृष्टान्ते मरणधर्मात्मकरय साध्यस्य सत्त्वेऽपि रागद्वेषादिमत्त्वस्य हेतोः संदिग्धत्वत् संदिग्धसाधनधोनाम दृष्टान्ताभासः एवं "अयं सर्वदर्शीतास्तिरागद्वेषादिमत्त्वात् मुनिविशेषवत् इत्यादी मुनिविशेषात्मके दृष्टान्ते सर्वदर्शित्वाभावरूप साध्यस्थ रागद्वषादिमत्त्वसाधनस्य च संदिग्धत्वान् संदिग्धसाध्य साधनोभयधर्मोनाम दृष्टान्ताभासः एवं अयं पुरुषो रागपादिमान् वक्त त्वादिष्ट पुरुषवदित्यादौ इष्ट पुरुष दृष्टान्ते रागद्वेषादिमत्त्वरूप साध्यस्य वक्त त्वरूप साधनस्य च सत्वेऽपियो यो यो वक्ता स स रागादिमान् इत्येवमन्वयव्याप्तेरभावेन अनन्धयो नाम दृष्टान्ताभासः एवं शब्दोनित्यः कृतकत्वात् घटवत् इत्यादी घटात्मके दृष्टान्तेऽनित्यात्मक साध्यस्य कृतकरूपसाधनस्थ च सत्त्वेऽपि यत्र-यत्र कृतकत्वं तत्र तत्रानित्यत्वमित्येवमन्वयव्याप्तेः सत्त्वेपि वादिना वचनेनाप्रदशितत्वादप्रदर्शितान्वयो नाम दृष्टान्ताभासः एवं शब्दोनित्यः कृतकत्वात् यदनित्यं तत् कृतक घटवदित्यादी घटात्मके दृष्टान्तेऽनित्यत्वरूपसाध्यस्य कुतकत्वरूपसाधनस्य सत्त्वेऽपि यत्कृतकं तदनित्यं इति अन्वयव्याप्तेवपरीत्येन यदनित्यं तत्कृतकम् इत्येवमन्वयव्याप्तिरुक्ता तस्माद्विपरीतान्वयो नाम दष्टान्ताभासोऽवगन्तव्यः ।। ३५ ॥ अर्थ-साधर्म्यदृष्टान्नाभास के नौ भेद है-जो इस प्रकार से हैं-(१) साध्यधर्मविकल दृष्टान्ताभास (२) साधन धर्मविकलदृष्टान्ताभास (३) साध्यसाधनोभयविकल दृष्टान्ताभास (४) संदिग्धसाध्यधर्मवाला दृष्टान्ताभास (2) मंदिग्ध साधनधर्मवाला दृष्टान्ताभास (६) संदिग्धउभयधर्मवाला दृष्टान्ताभास स(७) अनन्वयदृष्टान्ताभास (4) अप्रदशितान्वयवाला दृष्टान्ताभाम और (8) विपरीतान्दयवाला दृष्टान्ताभास ॥ ३५ ॥
SR No.090312
Book TitleNyayaratna Sar
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherGhasilalji Maharaj Sahitya Prakashan Samiti Indore
Publication Year
Total Pages298
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy