SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ न्यायरत्न : न्यायरत्नावली दीका : पंचम अध्याय, सूत्र ३४ बवतृत्वादसौ संदिग्धविपक्ष वृत्तिकोऽनैकान्तिकः, शब्दोऽनित्यः प्रमेयत्वादसौ निश्चितविपक्ष वृत्तिकः ।। ३३ ॥ अर्थ-अनैकान्तिक हेत्वाभास संदिग्ध विपक्षवृत्ति और निश्चित विपक्षवृत्ति के भेद से दो प्रकार का कहा गया है । जिस हेतु की विपक्ष में वृत्ति संदिग्ध होती है ऐसा वह संदिग्ध विपक्ष वृत्ति वाला अनेकान्तिक हेत्वाभासरूप होता है । तथा जिस हेतु की वृत्ति विपक्ष में निश्चित होती है ऐसा वह हेतु निश्चित विपक्ष वृत्ति वाला अनैकान्तिक हेत्वाभासरूप होता है, इन दोनों हेत्वाभासों के सम्बन्ध में पीछे टीकाकार ने स्पष्टीकरण कर दिया है ।। ३३ ।। सूत्र-साधर्म्य दृष्टान्ताभासो नविध. सध्यसाधन भयधविकल: संदिग्ध साध्य साधनोभयानन्वया प्रदर्शितान्त्रय विपरीतान्ययभेदात् ।। ३४ ।। संस्कृत टोका-अनुमानाभासप्रसङ्गेन पक्षाभास हेत्वाभासयो निरूपर्ण विधायाऽधुना तत्प्रसङ्गादेव दृष्टान्ताभासं निरूपयति सूत्रकारः-साधर्म्यवैधयभेदाभ्यां दृष्टान्तस्य द्वविध्यं प्रोक्तमतो दृष्टान्ताभासोऽपि साधर्म्यदृष्टान्ताभास वैधयंदृष्टान्ताभासभेदेन द्विविध एव । तत्र दृष्टान्ताभासः कतिविधः इत्यारेकायां स नवविध इत्युत्त रयता सूत्रकारेण नवविधत्वमेव तस्य प्रदर्श्यते। तथाहि-साध्यधर्मविकलः १, साधनधर्मविकलः २, साध्यसाधनोभय धर्म विकलः ३, संदिग्ध साध्यधर्मा, ४, संदिग्धसाधन धर्मा, ५, संदिग्ध साधनोभय धर्मा ६, अनन्वयः ७, अप्रदर्शितान्वयः८, विपरीतान्वयश्चेति ह । तत्र "शब्दोनित्यः अमूर्तत्वात् दुःखवत्" इत्यत्र दुःखात्मके दृष्टान्ते नित्यत्वात्मक साध्यस्याभावात् नित्यरूप साध्यधर्म विकलोनाम दृष्टान्ताभासः, दुःखस्य पुरुषादिकृत पाप कर्म जन्यतया नित्यत्वाभावात्, एवं शब्दो नित्यः अमूतत्वात् परमाणु वत् इत्यादी परमाणुरूपे दृष्टान्ते नित्यत्वात्मक साध्यस्य सत्त्वेऽपि अमूर्तत्व रूपहेतोरभावेन अमूर्त त्वरूप साधन विकलो नाम दृष्टान्ताभासः, एवं शब्दोनित्यः अमूर्तत्वात् घटवत् इत्यादी घटात्मके दृष्टान्त नित्यत्वात्मक साध्यस्या मूतत्वरूपहेतोश्चासद्भावन साध्यसाधनोभय धमं विकलो दृष्टान्ताभास एवमेव अयं पुरुषो रागादिमान वक्त त्वाज्जिनदत्तबत् इत्यादी जिनदत्तात्मके दृष्टान्ते रागादि रूप साध्यस्य दृष्टान्ते संदिग्धत्वात् संदिग्धसाध्यधर्मो नाम दृष्टान्ताभासः, अन्य जनो मनो विकारस्याप्रत्यक्षतया जिनदत्त राग द्वे पादयः सन्ति नवेति सन्देह सत्त्वात् । एवमेवायं पुरुषो मरणधर्मा रागद्वषादिमत्त्वाद देवदत्तवत् इत्यादौ देवदत्तात्मके दृष्टान्ते मरणधर्मात्मकस्य साध्यस्य सत्त्वेऽपि रागद्वेषादिमत्त्वस्य हेतोः संदिग्धत्वात संदिग्धसाधन धर्मोनाम दृष्टान्ताभासः, एवम् -"अयं सर्वदर्शी नास्ति रागद षादि मत्त्वात् मुनि विशेष बत् इत्यादी मुनि विशेषात्मके दृष्टान्ते सर्वदर्शित्वाभाव रूप साध्यस्थ रागद्वेषादिमत्त्व साधनस्य च संदिग्धत्वात् संदिग्ध साध्य साधनोभयधर्मो नाम दृष्टान्ताभासः, एवम् अयं पुरुषो राग द्वषादिमान् वक्त त्वादिष्ट पुरुषवदित्यादी इष्ट पुरुषे दृष्टान्ते राग द्वेषादिमत्त्वस्य साध्यस्य वक्त त्वरूप साधनस्य च सत्त्वेऽपि यो यो वक्ता स स रागादिमान् इत्येवमन्वयव्याप्तेरभावेन अनन्वयो नाम दृष्टान्ताभासः, एवं शब्दोऽनित्यः कृतकत्वाद् घटवत् इत्यादी घटात्मके दृष्टान्तेऽनियत्वात्मक साध्यस्य कृतकत्व रूप साधनस्य च सत्त्वेऽपि यत्र २ कृतकत्वं तत्र तत्रानित्यत्वामित्येवमन्वय व्याप्तेः सत्त्वेऽपि वादिना बचनेना प्रदर्शितत्यादप्रदर्शितान्धयोनाम दृष्टान्ताभासः, एवं शब्दोऽनित्यः कृतकत्वात् यद नित्यं तत् कृतकं घटवदित्यादी घटात्मक दृष्टान्तेऽनित्यत्व रूप साध्यस्य कृतकत्वरूप साधनस्य सत्त्वेऽपि यत्कृतकं तदनित्य मिति अन्बय व्याप्ते बैंपरीत्येन यदनित्यं तत्कृतकम् इत्येवमन्ययव्याप्तिरुक्ता तस्माद्विपरीतान्वयौ नाम दृष्टान्ताभासोऽवगन्तव्यः ।। ३४॥
SR No.090312
Book TitleNyayaratna Sar
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherGhasilalji Maharaj Sahitya Prakashan Samiti Indore
Publication Year
Total Pages298
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy