________________
तल्लोको चितत्वं यत्सर्वजनादेयत्वम् ॥५६॥ तत्सोजन्यं यत्र नास्ति परोद्वेगः ॥५७॥ तद्धीरत्वं यत्र यौवनेनानपवादः ॥ ५८|| तत्सोभाग्यं यत्रादानेन वशीकरणम् ||५१२१ ॥ सा सभारण्यानी यस्यां न सन्ति विद्वांसः ॥६०॥
किं तेनात्मनः प्रियेण यस्य न भवति स्वयं प्रियः ||६१ ||
स किं प्रभुर्यो न सहते परिजनसंबाधम् ॥६२॥
न लेखाद्वचनं प्रमाणम् ॥१६३ ॥
अनभिज्ञाते लेखेऽपि नास्ति संप्रत्ययः ||६४ ||
श्रीणि पातकानि सद्यः फलन्ति स्वामिद्रोहः स्त्रीवधो बालयधश्चेति ॥ ६५॥ अप्लवस्य समुद्रावगाहनमिवाबलस्य बलवता सह विग्रहाय टिरिटिल्लितम् ॥ ६६ ॥
बलवन्तमाश्रित्य विकृतिभञ्जनं सद्यो मरणकारणम् ॥ ६७ ॥ प्रवास: चक्रवर्तिनमपि संतापयति किं पुनर्नान्यम् ॥६८॥ बहुपाथेयं मनोनुकूलः परिजनः सुविहितश्चोपस्कर: प्रवासे दुःखोत्तरणतरण्डको वर्गः ॥ ६९ ॥
२८. विवादसमुद्देशः
गुणदोषस्तुलादण्डसमो राजा स्वगुणदोषाभ्यां जन्तुषु गौरवलाघवे ||१|| राजा त्वपराधालिङ्गितानां समवर्ती तत्फलमनुभावयति ॥ २॥ आदित्यवद्यथावस्थितार्थं प्रकाशनप्रतिभाः सभ्याः ॥३॥
अदृष्टश्रुतव्यवहाराः परिपन्थिनः सामिषां न सभ्याः ॥४॥ लोभपक्षपाताभ्यामयथार्थवादिनः सभ्याः सभापतेः सद्योमानार्थ हानि लभेरन् ॥५॥
तालं विवादेन यत्र स्वयमेव सभापतिः प्रत्यर्थी सभ्य सभापत्योरसामञ्जस्पेन कुतो जय. किंबहुभिश्छगलेः श्वा न क्रियते ॥६॥ विवादमास्थाय यः सभायां नोपतिष्ठेत, समाहूतोऽपसरति, पूर्वोक्तमुत्तरोक्तेन बाघले, निरुत्तरः पूर्वोक्तेषु युक्तेषु युक्तमुक्तं न प्रतिपद्यते स्वदोषमनुवृत्य परदोषमुपालभते, यथार्थवादेऽपि द्वेष्टि सभामिति पराजित - लिङ्गानि ॥७॥
छलनाप्रतिभासेन वचनाकौशलेन चार्थहानिः ॥८॥ भुक्तिः साक्षी शासनं प्रमाणम् ॥९॥
२१४
नीतिवाक्यामृत में राजभीवि