________________
दूतोऽपसरेद् गूढपुरुषान्वावसर्पयेत् ॥६॥ परंणाशु प्रेषितो दूतः कारणं विमृशेत् ॥७॥ कृत्योपग्रहोऽकृत्योत्थापनं सुतदायादावरुद्धोपजापः स्वमण्डलप्रविष्टगूढपुरुषपरिज्ञानमन्तपालाटविककोश देशतन्त्रमिश्रावबोधः कन्यारत्नवाहन विनि
श्रावणं स्वाभीष्टपुरुषप्रयोगात् प्रकृतिक्षोभकरणं दूतकर्म ॥८॥ मन्त्रिपुरोहितसेनापतिप्रतिबद्धपूजनोपचारविस्रम्भाभ्यां शत्रोरिति कर्तव्यतामन्तःसारतां च विद्यात् ||१९||
स्वयमशक्तः परेणोक्तमनिष्टं सहेत ॥ १०॥ गुरुषु स्वामिषु वा परिवादे नास्ति क्षान्तिः ॥ ११ ॥ स्थित्वापि यियासतोऽवस्थानं केवलमुपक्षयहेतुः ॥ १२ ॥ वीरपुरुषपरिवारितः शरपुरुषान्तरितात् तान् पश्येत् ||१३|| श्रूयते हि किल चाणक्यस्तीक्ष्णदूत प्रयोगेणैकं नन्दं जघान ॥ १४ ॥ शत्रुप्रहितं शासनमुपायनं च स्वैरपरीक्षितं नोपाददीत ॥ १५ ॥ श्रूयते हि किल स्पर्शविषवासिताद्भुतवस्त्रोपायनेन करहाटपतिः कैटभो वगुणागतं वा १
आशीविषविष रोपेतरत्नकरण्डकप्राभृतेन च करवालः करालं जघानेति ।। १७ ।। महत्यपराचेऽपि न दूतमुपहन्यात् ॥ १८॥
उद्धृतेष्वपि शस्त्रेषु दूतमुखा वै राजानः ॥ १९ ॥ तेषामन्तायसायिनोऽप्यवध्याः ||२०|| कि पुनर्ब्राह्मणः ||२१||
अवध्यभावो दूतः सर्वमेव जल्पति ||२२||
कः सुधोदूंतवचनात् परोत्कर्षं स्वापकर्षं च मन्येत ॥२३॥
स्वयं रहस्यज्ञानार्थं परदूतो नपाद्यैः स्त्रीभिरुभयवेतनेस्तद्गुणा चारशीलानुवृतिभिर्वा चंचनीयः ||२४||
चत्वारि वेष्टनानि खड्गमुद्रा च प्रतिपक्षलेखानाम् ॥२५॥
१४. चारसमुद्देशः
स्वपरमण्डलकार्याकार्यावलोकने चाराः खल चक्षूंषि क्षितिपतीनाम् ॥ १॥ अलौल्यममान्द्यममुषाभाषित्वमम्यूहकत्वं चारगुणाः ॥२॥
तुष्टिदानमेव चाराणां वेतनम् ||३||
ते हि तल्लोभात् स्वामिकार्येषु त्वरन्ते ||४|| असति संकेते त्रयाणामेकवाक्ये संप्रत्ययः ॥ ५॥ अनबसप हि राजा स्वैः परैश्वातिसंधीयते ॥६॥
41.
नीतिवाक्यामृत में राजनीि