________________
·
दुरारोहपादप इव दण्डाभियोगेन फलप्रदो भवति नोच प्रकृतिः १३२ ॥
महान यो विपत्सु धैर्यंमवलम्बते ||१३३||
उत्तापकत्व हि सर्वकार्येषु सिद्धीनां प्रथमोऽन्तरायः || १३४||
शरदुधना इव न खलु वृथालापा गलगजितं कुर्वन्ति सत्कुलजाताः ॥ १३५॥ न स्वभावेन किमपि वस्तु सुन्दरमसुन्दरं वा किन्तु यदेव यस्य प्रकृतितो भाति तदेव तस्य सुन्दरम् ॥१३६॥ |
न तथा कर्पूररेणुना प्रीतिः केतकोनां वायथामेध्येन ॥ १३७॥ अतिक्रोधनस्य प्रभुत्वमग्नौ पतितं लवणमिव शतधा विशीर्यते ॥ १३८ ॥ सर्वान् गुणान् निहन्त्यनुचितज्ञः || १३५९ ॥ परस्परं मर्मकथनात्मविक्रम एव ॥ १४० ॥ तदजाकृपाणीयं यः परेषु विश्वासः || १४१ ॥ क्षणिक चित्तः किंचिदपि न साधयति || १४२२ स्वतन्त्रः सहसाकारित्वात् सर्व विनाशयति ॥१४३॥ अलसः सर्वकर्मणामनधिकारी ||१४४|| प्रमादवान् भवत्यवश्यं विद्विषां वशः || १४५ ॥ कमप्यात्मनोऽनुकूलं प्रतिकूलं न कुर्यात् ॥ १४६ ॥ प्राणादपि प्रत्यवायो रक्षितव्यः ॥ १४७ ॥
आत्मशकिमजानतो विग्रहः क्षयकाले कीटिकानां पक्षोत्थानमिव ॥१४८॥ कालमलभमानोऽपकर्तरि साधु वर्तत ॥ १४९ ॥
किन्नु खलु लोको न वहति मूर्ध्ना दग्धुमिन्धनम् || १५०॥ नदीरयस्तरूणामंहीन क्षालयन प्युन्मूलयति ॥१५१॥ उत्सेको हस्तगतमपि कार्य विनाशयति ॥ १५२॥ नापं महद्वापक्षेपोपायज्ञस्य ॥ १५३ ॥
नदीपूरः सममेबोन्मूलयति [ तोरजतॄणां हिमान् ] ॥ १९४॥ युक्तमुक्तं वचो बालादपि गृह्णीयात् ॥ १५५॥
रविषये किं न दीपः प्रकाशयति ॥१५६॥
अल्पमपि वातायनविवरं बहुनुपलम्भयति || १५७॥
पतिंवरा इव परार्थाः खलु वाचस्ताश्च निरर्थकं प्रकाश्यमानाः
शपयन्त्यवश्यं जनयितारम् ||१५८ ॥
तत्र युक्तमप्युक्तसमं यो न विशेषज्ञः ॥ १५९ ॥
स खलु पिशाचकी बातकी वा यः परेऽनर्थनि वाचमुद्दीरयति ॥ १६० ॥ विध्यायतः प्रदीपस्येव नयहीनस्य वृद्धिः || १६१ ॥ जीवोत्सर्गः स्वामिपदमभिलषतामेत्र ॥ १६२ ॥ बहुदोषेषु क्षणदुःखप्रदोऽपायोऽनुग्रह एव ॥ १६३ ॥
२०६
नीतिवाक्यामृत में राजनीति