________________
यः कामार्थावुपहत्य धर्ममेवोपास्ते स पक्वक्षेत्रं परित्यज्यारण्यं कृषति ॥४६|| स खलु सुधीर्योऽमुत्र सुखाविरोधेन सुखमनुभवति ।।४।। इदमिह परमाश्चर्य यदन्यायसुखलवादिहाभुत्र चानवधिदुःस्वानुबन्धः ॥४८॥ सुखदुःखादिभिः प्राणिनामुत्कर्षापकर्षों धर्माधर्मयोलिङ्गम् ॥४९|| किमपि हि तद्वस्तु नास्ति यत्र नश्वयंमदृष्टाधिष्ठातुः ।।५।।
२. अर्थसमुद्देशः
यतः सर्वप्रयोजनसिद्धिः सोऽर्थः ॥१॥ सोऽर्थस्य भाजनं योऽर्थानुबन्धेनार्थमनुभवति ।।शा अलब्धलाभो लब्धपरिरक्षणं रक्षितपरिवर्द्धनं चार्थानुबन्धः ॥३॥ तीर्थमर्थनासंभावयन् मधुच्छत्रमिव सर्वात्मना विनश्यति ॥४॥ धर्मसमवायिनः कार्यसमवायिनश्च पुरुषास्तीर्थम् ॥५॥ तादास्तिक-गलहर-कदर्येषु नासलभ: प्रत्यवायः ॥६॥ यः किमप्यसंचिन्त्योत्पन्नमर्थ व्ययति स तादात्विकः ॥७॥ यः पितपैतामहमर्थमन्यायेन भक्षयति स मूलहरः ॥८॥ यो भृत्यात्मपीडाभ्यामर्थं संचिनोति स कदर्यः ॥९॥ तादात्विकमूलहरयोरायत्यां नास्ति कल्याणम् ॥१०॥ कादर्यस्यार्थसंग्रहो राजदायादत्तस्कराणामन्यतमस्य निधिः ॥११॥
३, कामसमुद्देशः
आभिमानिक रसानुविद्धा यतः सर्वेन्द्रियप्रीतिः स कामः ॥१॥ धर्मार्थाविरोधेन कामं सेवेत ततः सुखी स्यात् ॥२॥ समं वा त्रिवर्ग सेवेत ॥३॥ एको प्रत्यासेवित्तो धर्मार्थकामानामात्मानमितरौ च पोडयति ॥४॥ परार्थभारवाहिन इवात्मसुखं निरुन्धानस्य धनोपार्जनम् :1५।। इन्द्रियमनःप्रसादनफला हि विभूतयः ॥६॥ नाजितेन्द्रियाणां कापि कार्यसिद्धिरस्ति ॥७॥ इष्टेऽर्थऽनासक्तिविरुद्ध चाप्रवृत्तिरिन्द्रियजयः ||८|| अर्थशास्त्राध्ययनं वा ॥२॥ कारणे कार्योपचारात् ॥१०॥ योऽनङ्गेनापि जोयते स कथं पुष्टाङ्गानरातोन् जयेत ॥११॥ कामासक्तस्य नास्ति चिकित्सितम् ॥१२॥
मोतिवाक्यामृप्त का मूक सूत्र-पाठ
२५