SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः ] नेमिनिर्वाणम् । श्रुत्वा ततस्तत्परमार्थनिष्ठं नेमेर्वचो बन्धुजनः समयः । युक्त्या प्रसा प्रतिबोधितोऽपि व्यक्ताश्रासीद्विरहार्तिभीरुः ॥ ८३ ॥ समापृच्छ श्रीमानथ स पितरौ साश्रुनयनौ सुतादुःखोद्विमं श्वशुरमपि संबोध्य बहुशः । विवोढुं तां मुक्तिश्रियमुदयिनीमे कहृदयो दयालुस्तत्कालं वनमभिययौ रैवतगिरेः ॥ ८४ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पूर्वभववर्णनो नाम त्रयोदशः सर्गः । चतुर्दशः सर्गः । अथ तत्र निवर्त्य दिक्पतीन्स सुरेन्द्राननुयायिनः प्रभुः । पृथिवीभृति मुक्तिवर्ति (र्त ) नीमणिसोपान इवारुरोह सः ॥ १ ॥ रमणीयतया न केवलं सुरलोकस्य जगाम सेव्यताम् । अथ नेमिपदैः पवित्रितः शिखरी तीर्थतयाप्यसौ मुहुः ॥ अनुकूलतया मरुत्क्षणं तमुदस्यन्निव शृङ्गगामिनम् । व्यचरत्पुरतः पथोधुतस्थलपद्मालिरुतैर्वदन्निव ॥ ३ ॥ मदवेक्षणमन्मथव्यथां विधुरा मा स्म भजन्पुराङ्गनाः । इति तेन गिरौ स्थितिर्मता न गृहद्वेषवनानुरागतः ॥ ४ ॥ जगृहे स्वयमेव संयमः शुचिना तेन ततो महात्मना । जगतोऽप्युपरि स्फुरद्धियां गुरुरात्मैव विवेकिनां मतः ॥ ५ ॥ स यथा पृथिवीभृतः पुरा बहुशाखाप्रसरं समुन्नतम् | श्रितमाश्रितसंयमोऽपि सन्परितो वंशमभूषयत्तथा ॥ ६ ॥ प[द] जानुलसगुजालतः क्षितिसंस्थापितपादनिश्चलः । ८७
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy