SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ 88 : काव्यमाला । ज्ञानदर्शनचारित्ररत्नत्रितयशालिनः । भूषणैस्तव पर्याप्तं भारैकफलदायिभिः ॥ ४६ ॥ इति स्तुत्यान्तरीं भक्ति व्यञ्जयन्तो यथाक्रमम् । परितो विश्वनाथस्य तस्योपविविशुश्च ते ॥ ४७ ॥ सभायामागतस्तस्यां वियतीव नवाम्बुदः । तत्त्वजिज्ञासा प्रश्नं गणी गर्जिमिवाकरोत् ॥ ४८ ॥ अथ प्रश्नं तमाकर्ण्य कर्णयोरमृतोद्वरा । गिरा जगाद सिद्धार्थः प्रसिद्धार्थ मनोज्ञया ॥ ४९ ॥ तस्य वक्रेषु वाग्देवीचतुष्कं प्रतिपेदुषी । वृक्षयष्टिरिव स्कन्धनद्धशाखा रराज सा ॥ ५० ॥ जीवा जीवाश्रवा बन्धसंवरौ " निर्जरान्वितौ । मोक्षश्च तानि तत्त्वानि व्यामुवन्ति जगत्रयम् ॥ ५१ ॥ चेतनालक्षणो जीवः शरीरपरिमाणभाक् । एकेन्द्रियादिमेदेन पञ्च यावत्स जायते ॥ ५२ ॥ पृथ्वीकायादयो ज्ञेया एकेन्द्रियसमन्विताः । शङ्खादयस्त्वसंख्याताः प्राप्तद्वीन्द्रियविग्रहाः ॥ ५३ ॥ पिपीलिकादयस्त्वेते संयुतास्त्रिभिरिन्द्रियैः । चतुर्भिश्चञ्चरीकाद्याः पञ्चभिर्मानवादयः ॥ ५४ ॥ नारकास्तेऽथ तिर्यञ्चो मनुष्या देवता इति । चतुर्विधाः प्रजायन्ते चेतसः परिणामतः ॥ ५५ ॥ ! १. जीवो द्वापश्ञ्चाशत्तमश्लोके व्याख्यातलक्षणः २. अजीवः सप्ततितमश्लोके. ३. आश्रवः पञ्चसप्ततितमश्लोके. ४. बन्धः त्रिसप्ततितमश्लोके. ५. संचरो द्विसप्ततितमश्लोके. ६. निर्जरा चतुःसप्ततितमश्लोके. ७. मोक्षः षट्सप्ततितमश्लोके.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy