________________
( २१ )
श्रीकुन्दकुन्दाचार्यकृतशास्त्राणां सारार्थ परिगृह्य स्वपरोपकाराय द्रव्यस्वभावप्रकाशकं नयचक्रं मोक्षमार्ग कुर्वन् ग्रन्थका निर्विघ्नतया शास्त्रपरिसमाप्त्यादिकं शिष्टाचारप्रतिपालनं पुण्यावाप्तिं नास्तिकतापरिहारं फलमभिलषन् शास्त्रादौ इष्टदेवताविशेषं नमस्कुर्वन्नाह दव्वे ' ति.
दव्वा विस्ससहावा लोयायासे सुसंठिया जेहिं । दिठा तियालविसया वंदेहं ते जिणे सिद्धे ॥१॥ द्रव्याणि विश्वस्वभाबानि लोकाकाशे संस्थितानि यः । दृष्टानि त्रिकालविषयाणि वन्देऽहं तान् जिनान्सिद्धान् ॥ इष्टदेवताविशेषं नमस्कृत्य व्याख्येयप्रतिज्ञानिर्देशार्थमाह ‘ज जमिति - जं जं जिणेहि दिलं जह दिलु सव्वदव्वसम्भावं । पुव्वावरअविरुद्धं तं तह संखेवदो वोच्छं ॥ २ ॥ यो यो जिनदृष्टो यथा दृष्टः सर्वद्रव्यस्वभावः । पूर्वापराविरुद्धः तं तथा संक्षेपतो वक्ष्ये ॥ स्वभावस्वभाविनारेकत्वनिर्णीत्युपचारं व्याचष्टे ' जीवेति' जीवा पुग्गलकाला धम्माधम्मा तहेव आयासं । णियणियसहावजुत्ता दहव्वा णयपमाणेहिं ॥ ३ ॥ जीवा: पुद्गलकायौ धर्माधर्मों तथैवाकाशम् । निजनिजस्वभावयुक्ता द्रष्टव्या नयप्रमाणैः ॥
स्वभावत्य नामान्तरं व्रते ' तश्चमित्यादि '-- तच्च तह परमहं दव्वसहावं तहेव परमपरं ।