________________
संपादकीयवक्तव्यम्.
प्रथमतो दोहारूपेण द्रव्यस्वभावप्रकाशो नाम ग्रन्थ आसीद् दृष्टिपथम् । तदनु ग्रन्थ एको नयचक्रनामा गाथारूपेण श्रीमाहिल्लदेवेन रचितः । स नष्ट इति श्रीदेवसेनगुरुणा ग्रन्थोयं पुनारचित इति प्रशस्त्यान्तिमया प्रकटीभवति । तद्यथा, " दव्वसहावपयासं दोहयबंधेण आसि जं दिठं । गाहाबंधेण पुणो रइयं माहल्लदेवेण ।। दुसमीरणेण पोयंपेरिय संतं जहा तिरं णडं । सिरिदेवसेणमुणिणा तह णयचक्कं पुणो रइयं ॥ " अत्र समंतभद्रादीनां प्राचामाचार्याणां बहूनि वचनान्युद्धतान्युपलभ्यन्ते तानि अग्रे सूचीप्रकाशे समवलोकनीयानि ।
अग्रेत्र प्रकाशितोधिकाराणां क्रमः पत्रसंख्याक्रमेण । एवं सूत्राणामुद्धृतवचनानां च सूची आकराद्यादिक्रमेण दर्शिता । प्रामत्र लघुनयचक्रनामा ग्रंथो विंशतिपत्रपयंतं योजितस्ततो बृहन्नयचक्रमास्ते । लघुनयचक्रे नयोपनयानां स्वरूपमुदाहरणानि च सन्ति। बृहति त्वत्र द्रव्यगुणपर्यायाणां सामान्यतो विशेषतश्च स्वरूपं वर्णितं रत्नत्रयस्वरूपं चान्ते। सूत्राणां प्राक् संस्कृतभाषायां या विषयसूची सर्वत्र वर्तते सा प्राचीना, प्राकृतसूत्राणां या च छाया साधेव कृतेति सुधियोऽधिया
निवेयंतेवंशीधरण, सोलापुरतः