________________
(१४३ ] 'सर्वेषां शुद्धज्ञानचैतन्यावाप्तिः स्यात् , तथा सति ध्यानं ध्येयं ज्ञानं ज्ञेयं गुरुः शिष्यइत्यभावः । 'सर्वथाशब्दः सर्वप्रकारवाची, सर्वकालवाची नियमवाची, अनेकान्तसापेक्षी वा ? यदि सर्वप्रकारवाची सर्वका. लवाची अनेकान्तवाची वा सर्बादिगणे पठनात् सर्बशब्द एवविधश्वेत्तर्हि सिद्धं नः समीहितम् ! अथवा नियमवाची चेत्तर्हि सकलार्थानां तव प्रतीतिः कथं स्यात् ? नित्यः, अनित्यः, एकः, अनकः, भेदः अभेदः कथं प्रतीतिः स्यात् नियमितपक्षत्वात् । तथाऽ. चैतन्यपक्षेऽपि सकलचैतन्योच्छेदः स्यात् , मर्तस्यैकान्तेनात्मनो मोक्षस्यानवाप्तिः स्यात् । सर्वथामूर्तस्यापि तथात्मनः संसारबिलोपः स्यात् । एकप्रदेशस्यैकान्तेनाखण्डपरिपूर्णस्यात्मनोऽनेककार्यकारित्व एव हानिः सात् । सर्वथाऽनेकप्रदेशत्वेऽपि तथा तस्यानर्थकार्यका. रित्वं स्वस्वभावशून्यताप्रसंगात् । शुद्धस्यैकान्तेनात्मनो न कर्ममलकलङ्कावलेपः सर्वथा निरञ्जनत्वात् । सर्वथाऽशुद्धैकान्तेऽपि तथात्मनो न कदापि शुद्धस्वभावप्रसंगः स्यात् तन्मयत्वात् (१) । उपच(२)रितैकान्तपक्षेऽपि नात्मज्ञता सम्भवति नियमितपक्षत्वात् । तथास्मनोऽनुपचरितपक्षेऽपि परज्ञतादीनां विरोधः स्यात् ।
" नानास्वभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः ।
तच सापेक्षसिद्धयर्थं स्यानयमिश्रितं कुरु"॥ १० ॥ स्वद्रव्यादिग्राहकेणास्तिस्वभावः । परद्रव्यादिग्राहकेण नास्ति
१ अशुद्धस्वभावमयत्वात् । २ मुख्याभावे सति प्रयोजने निमित्ते चो' पचार: प्रवर्तते ।