________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
भट्टानन्तकीर्तिप्रणीता क्षण एव तत्साक्षात्कारिणस्तदुपदेशस्तत्कालीनरुपलब्धुं शक्यः। तथाहि ज्योतिःशास्त्रवित् दिग्भागहोरादिकं तल्लिंगं पर्यालोचयन् शनैरत्याभ्यासेऽपि नष्टमुष्ट्यादिकमुपदिशति । कदाचिद्वितथमप्यभिदध्यात् । आयुर्वेदादिविच्च द्रव्यादिशक्तिमायुर्वेदं पर्यालोचयन्नायुःप्रमाणमरिष्टं पर्यालोचयन्नुपदिशति । आतुरं दृष्ट्वा पृष्ट्वा स्पृष्ट्वा निदानप्रागुपलक्षणोपशयादीनि पर्यालोच्येवात्यंताभ्यासेऽपि व्याधिखरूपमुपदिशति । सर्वज्ञस्तु दिग्भागहोराप्रश्नादिलिंगमपर्यालोच्यैव नष्टमुष्ट्यादिकमायुःप्रमाणं चारिष्टोत्पत्तेः प्रागेव द्रुतमवितथमुपदिशति । आतुरमदृष्ट्वाऽपृष्ट्वाऽस्पृष्ट्वा च निदानप्रागुपलक्षणोपशयादीनि चापर्यालोच्यैव व्याधिस्वरूपमुपदिशति । द्रव्याणामक्षराणां च संयोगवियोगशक्तिमनस्तां प्रश्नादिभिआतुमशक्यमायुर्वेदादिकमपर्यालोच्य द्रुतमवितथमभिधते इति । एवं तावत्
सर्वज्ञोऽयमिति ह्येवं तत्कालेऽपि बुभुत्सुभिः ॥ तज्ञानज्ञेयविज्ञानरहितैरपि गम्यते ॥ १ ॥ सर्वज्ञो नायमित्येतत्पुनर्ज्ञातुं न शक्यते ॥ नास्तिकैः परचेतांसि साक्षात्कर्तुमशक्तकैः ॥ २ ॥ सर्वत्र सर्वदा कश्चित्सर्वज्ञो नेत्यपि स्फुटं ॥ सर्वात्मज्ञानविज्ञानरहितैः कथ्यते कथं ॥ ३ ॥
For Private And Personal Use Only