________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६ भट्टानन्तकीर्तिप्रणीता गात्तत्क्षय इत्येतत्तु व्याहन्यते । भवतामप्यक्लेशरूपात्तपस एव कर्मक्षयाभ्यपगमात् कायक्लेशवैयर्थ्यं स्यात् इति चेन्नास्माभिर्बाह्यं क्लेशरूपं तपः कर्मक्षयार्थमिष्यते किं त्वांतरस्याक्लेशरूपस्य तपसः कर्मक्षयहेतोः परिबृंहणार्थं । तदर्थं च क्रियमाणं बाह्यं तपः किंचित्कर्मनिर्जरणार्थमपि स्यात् । तथाचोक्तं
बाह्यं तपः परमदुश्चरमाचरस्त्व-। माध्यात्मिकस्य तपसः परिबृंहणार्थमिति ॥ १॥ अस्माकमप्येवं स्यादिति चेदस्तु । किं तु फलोपभोगादेव संचितस्य कर्मणः क्षय इत्यभ्युपगमो विरुध्यते। दीक्षातस्तर्हि कर्मक्षयः स्यात् । दृश्यते हि मंत्राणां बीजादिशक्त्यपहरणादौ सामर्थ्य एवं कर्मक्षयेऽपि सामर्थ्य स्यात् इति चेत्कथं प्रतिनियतसामर्थ्यानां मंत्राणामेकत्र सामर्थ्यदर्शनाद्यत्र सामर्थ्य न दृष्टं तत्रापि सामर्थ्य कल्प्यते । यत्र यस्य केनचित्पकारेण सामर्थ्य दृष्टं तत्रैव तस्य तेन प्रकारेण प्रकारांतरेण वा सामर्थ्य कल्पयितुं युक्तं । यथा चास्माभिर्यथोक्तस्य चारित्रस्यानागतकर्मानुत्पत्तौ सामर्थ्यदर्शनात्संचितकर्मक्षयेऽपि सामर्थ्य कल्पितं नैवमनागतकर्मानुत्पत्तौ दीक्षायाः सामर्थ्यं दृश्यते । दीक्षितस्यापि कर्मकारणानां रागादीनामुत्पत्तिदर्शनात् । यदि पुनर्बीजादिशक्त्यपहरणादौ मंत्राणां सामर्थ्यदर्शनात्कर्मक्षयेऽपि सामर्थ्य कल्प्यते तर्हि तैलाभ्यंगामिदाहादेर्नि/जकरणे विषघ्नौषधद्रव्यस्य च विषशक्तेरपहरणेऽर्थस्य दृष्टत्वात्संचितक
For Private And Personal Use Only