________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८८
भट्टानन्तकीर्तिप्रणीता
मित्तं दृष्टं । यथा रोगकारणेष्वपथ्येषु पथ्यापथ्यविभागाज्ञानं । न पुनरात्मदर्शनस्नेहादिकं क्वचिदपि हेयेषु प्रवृत्तिकारणं दृष्टं । सत्यप्यात्मस्नेहादौ पथ्यापथ्यविभागज्ञानस्य सोपायबंधमुक्तिज्ञानस्य वाऽनथ्येषु सांसारिक सुखसाधनेषु बंधकारणेषु प्रवृतेरनुपलभात् । या तु विवेकिनोऽपि कस्यचित् कदाचिद्विषयेषु बंधकारणेष्वपथ्येषु च प्रवृत्तिरुपलभ्यते सा बलवत्कर्मनिमित्ते - त्यवगंतव्यं । यदा तु बलवत्कर्मोदयो न विद्यते हेयोपादेयतत्त्वज्ञानं चास्ति तदा भवत्येव हेयेभ्यो व्यावृत्तिरिति ॥
नन्वात्मदर्शनादात्मस्नेहस्ततः सुखाभिलाषस्तदभिलाषादात्मसुखसाधनेषु प्रवृत्तिरिति भवत्येवात्मदर्शनात्संसारकारणेषु प्रवृत्तिरिति चेदुक्तमत्रात्मदर्शनादात्मस्नेहस्ततः सुखाभिलाषस्तस्मादात्मसुखसाधनेषु प्रवृत्तिरिति । सत्यमेतत् । किंत्वज्ञस्यात्मस्नेहस्तादात्विकसुखसाधनेषु प्रवर्तयति । विवेकिनस्त्वात्मस्नेहो हितेष्वेव प्रवर्तयतीति । तेन यदुक्तं नियमेनात्मनि स्नियन्नात्मीये सांसारिक सुखसाधने न विरज्यत इति तत्र यदि तावदज्ञो न विरज्यत इत्युच्यते तदा सिद्धसाधनं । अथ हेयोपादेयतत्त्वज्ञस्तदा सोपायेषु सांसारिक सुखसाधनेषूपभोगाश्रयबुद्धेर्विगमादनात्मीयत्वं मन्यमानो विरज्यत एवेत्यसिद्धिः । तथाच यदुक्तं
उपभोगाश्रयत्वेन गृहीतेष्विद्रियादिषु ॥
स्वत्वधीः केन वार्येत वैराग्यं तत्र तत्कुत इति ॥ १ ॥
For Private And Personal Use Only