________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६ भट्टानन्तकीर्तिप्रणीता नस्यावस्तुत्वप्रसंगात् । स्वसंतानवर्तिचित्तक्षणस्याजनकत्वेऽपि संतानांतरवर्तिनो योगिज्ञानस्य जननान्नाशेषतोऽवस्तुत्वमिति चेदेवं तर्हि रसादेरेककालस्य रूपादेरव्यभिचार्यनुमानं न स्यात् । रूपादेरत्यक्षणवद्विजातीयकार्यजनकत्वेऽपि सजातीयकार्यानारंमसंभवादेकसामग्र्यधीनत्वेन रूपरसयोर्नियमेन कार्यद्वयारंभकत्वेऽन्यत्रापि कार्यद्वयारंभकत्वं किं न स्यात् । योगिज्ञानांत्यक्षणयोरपि समानकारणसामग्रीजन्यत्वात्कथमेकत्रानुपयोगिनश्चान्यत्रोपयोगः। चरमक्षणास्योपयोगे वा ज्ञानज्ञानांतरप्रत्यक्षवादिनोऽपि स्वविषयज्ञानजननासमर्थस्यापि ज्ञानस्यार्थे ज्ञानजननसामर्थ्य किं न स्यात् । तथाच नार्थचिंतनमुत्सीदेत् ॥
अथ स्वसंतानवर्तिकार्यजननसामर्थ्यवद्भिन्नसंतानवर्तिकार्यजननसामर्थ्यमपि नेष्यते तर्हि सर्वथाऽर्थक्रियासामर्थ्यरहितत्वे. नात्यक्षणस्यावस्तुत्वं स्यात् । तथाविधस्यापि वस्तुत्वे सर्वथाsर्थक्रियारहितस्याक्षणिकस्यापि वस्तुत्वं किं न स्यात् । तथाच सत्त्वादयः क्षणिकत्वं न साधयेयुः अनैकांतिकत्त्वात् । तस्मान्न सास्रवचित्तसंतानस्यात्यंतोच्छेदो मुक्तिः । निरास्रवचित्तसंत त्युत्पा दलक्षणा मुक्तिरस्माकमपीष्टैव । केवलं सा चित्तसंततिः सान्वया निरन्वया वेत्यत्र विप्रतिपद्यामहे । तत्र सान्वये एव चित्तसंताने मुक्तिर्युक्ता । बद्धो हि मुच्यते नाबद्धः । न च निरन्ववे चित्तसंताने बद्धस्य मुक्तिरस्ति । तत्र
For Private And Personal Use Only