________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१८
क्रिया-कलापे
संयोगे द्वितीयाऽपि भवति चतुर्थी च । करणं करणानुयोगं शास्त्रं लोका. लोकविवरणं उत्सर्पिण्यादिकालकथकं चतुर्गतिस्वरूपनिरूपकं च प्रथ नमः। चरणं-चरणानुयोगं अगार्यनगारचारित्रोत्पत्तिवृद्धिरक्षानिवेदक शास्त्रं नमः । द्रव्यं द्रव्यानुयोगं जीवाजीवतत्त्वपुण्यपापबन्धमोक्षलक्षणकं सिद्धान्तं नमः।
शास्त्राभ्यासो जिनपतिनुतिः संगतिः सर्वदायें:
___ सवृत्तानां गुणगणकथा दोषवादे च मौनम् । सर्वस्यापि प्रियहितवचो भावना चात्मतत्वे ।
सम्पद्यन्तां मम भवभवे यावदेतेऽपवर्गः ॥१॥ टीका-एते पदार्थाः, मम-मे, भवभवे-जन्मनि जन्मनि, सम्पद्यन्ता-संजायन्ताम् । कियन्तं कालं सम्पद्यन्तां ? यावत्कालं अपवर्गः-मोक्षो भवति । एते के ? एकस्तावच्छास्त्राभ्यासः-पूर्वोक्तस्य चतुर्विधस्य शास्त्रस्याभ्यासोऽनुशीलनं कांतिकरणं ( ? ) शास्त्राभ्यासः । तथा जिनपतिनुतिः-जिनानां गणधरदेवादीनां पतिः स्वामी जिनपतिस्तस्य नुतिः स्तुतिः पुण्यगुणानुकीर्तनं तथा संगतिः-प्रसंगः सम्पद्यतां । कैः सह ? आर्यैः-अर्यन्ते गुणगुणवद्भिर्वा इत्यास्तैिः निम्रन्थाचार्यैः सह इत्यर्थः । अन्येऽपि ये धर्महेतवस्तैः सह सम्पद्यतां । कथं ? सदासर्वकालं । तथा सदृत्ताना-सदाचारनिरतानां तीर्थकरपरमदेवादीनां गुणगणकथा-पुण्यगुणसमूहभाषणं सम्पद्यतां । परेषां दोपवादेपापमलकलकोद्भावने मौनं मूकता सम्पद्यतां । चकाराद्गुणकथने वाचालता स्वकीयगुणभाषणे च मौनं सम्पद्यतां । सर्वस्यापि गुणिवर्गस्यापि जन्तुमात्रस्वापि प्रि-हितबचः-प्रियं कर्णामृतभूतं हितं परि. ग्रामपध्यं वचो वचनं सम्बद्यतां । अात्मतत्त्वे-निजनिर्मलनिश्चलात्म स्वरूपे चकारात्पंचपरमेष्ठियु च भावना ध्यानाभ्यासः सम्पद्यताम् ।
For Private And Personal Use Only