________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रिया-कलापे
यः सर्वाणि चराचराणि विधिवद्व्याणि तेषां गुणान्
पर्यायानपि भूतभाविभवतः सर्वन् सदा सर्वदा। . जानीते युगपत्प्रतिक्षणमतः सर्वज्ञ इत्युच्यते
सर्वज्ञाय जिनेश्वराय महते वीराय तस्मै नमः ॥ १ ॥ वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिता
वीरेणाभिहतः स्वकर्मनिचयो वीराय भक्त्या नमः। वीरातीर्थमिदं प्रवृत्तमतुलं वीरस्य वीरं तपो
वीरे श्री-धुति कान्ति-कीर्ति-धृतयो हे वीर ! भद्रं त्वयि ॥२॥ ये वीरमादौ प्रणमन्ति नित्यं ।
ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति लोके
संसारदुर्ग विषमं तरन्ति ॥३॥ व्रतसमुदयमूलः संयमस्कन्धबन्धो
यमनियमपयोभिर्वर्धितः शीलशाखः। समितिकलिकमारो गुप्तिगुप्तप्रवालो
गुणकुसुमसुगन्धिः सत्तपश्चित्रपत्रः ॥४॥ शिवसुखफलदायी योदयाछाययोधः
शुभजनपथिकानां खेदनोदे समर्थः । दुरितरविजतापं प्रापयन्नन्तभावं
स भवविभवहान्यै नोऽस्तु चारित्रवृक्षः॥५॥ चारित्रं सर्वजिनेश्वरितं प्रोक्तं च सर्वशिष्येभ्यः । 'प्रणमामि पंचभेदं पंचमचारित्रलाभाय ॥ ६ ॥ धर्मः सर्वसुखाकरो हितकरो धर्म बुधाश्चिन्वते,
धर्मेणैव समाप्यते शिवसुख धर्माय तस्मै नमः ।
For Private And Personal Use Only