________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकादि-प्रतिक्रमणम् ।
(अनन्तरं साधवः “थोस्सामि" इत्यादि दण्डक पठित्वा सूरिणा सहिताः "वदसमिदिदियरोधो" इत्यादिकं चाधीत्य वीरस्तुति कुर्युः)
कारभक्ति:
सर्वातिचारविशुद्धयर्थ पाक्षिकप्रतिक्रमणक्रियायां पूर्वीचार्यानुक्रेण सकलकर्मक्षयार्थ भावपूजावन्दनास्तवसमेतं निष्ठितकरणवीरभक्तिकायोत्सर्ग करोम्यहं-(इत्युच्चार्य, “णमो अरहताणं" इत्यादि दंडकं पठित्वा कायोत्सर्ग यथोक्तानुच्छासान् ३०० कृत्वा "थोस्सामि" इत्यादिदण्डकं पठित्वा “चन्द्रप्रभं चन्द्रमरीचिगौरं” इत्यादि स्वयंभुवं "या सर्वाणि चराचराणि" इत्यादि वीरभक्तिं सांचलिका पठित्वा "वदसमिदिदियरोधो” इत्यादिकं पठेयुः । तद्यथा-)
चन्द्रप्रभ चन्द्रमरीचिगौरं चन्द्रं द्वितीयं जगतीव कान्तम् । वन्देऽभिवन्ध महतामृषीन्द्रं जिनं जितस्वान्तकषायबन्धम् !!१॥ यस्याङ्गलक्ष्मीपरिवेषभिन्नं तमस्तमोरेरिव रश्मिभिन्नम् । ननाश बाछ बहु मानसं च ध्यानप्रदीपातिशयेन भिन्नम् ॥२॥ स्वपक्षसौस्थित्यमदावलिप्ता वाक्सिंहनादैर्विमदा बभूवुः । प्रवादिनो यस्य मदागण्डा गजा यथा केसरिणो निनादैः॥३॥ यः सर्वलोके परमेष्ठितायाः पदं बभूवाद्भुतकर्मतेजाः। अनन्तधामाक्षरविश्वचक्षुः समस्तदुःखक्षयशासनश्च ॥४॥ स चन्द्रमा भव्यकुमुद्वतीनां विपनदोषाभ्रकलङ्कलेपः । व्याक्रोशवाङ्न्यायमयूखमालः पूयात्पवित्रो भगवान्मनो मे ॥५॥
१-वीरस्तुतिर्जिनस्तुत्या सह शान्तिनुतिर्मता ।
For Private And Personal Use Only