________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाक्षिकादि-प्रतिक्रमणम् ।
गणधरवलयःजिनान् जितारातिगणान् गरिष्ठान देशावधीन् सर्वपरावधींश्च । सत्कोष्ठबीजादिपदानुसारीन् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥१॥ संमिन्नश्रोत्रान्वितसन्मुनीन्द्रान् प्रत्येकसम्बोधितबुद्धधर्मान् । स्वयंप्रबुद्धांश्च विमुक्तिमार्गान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥२॥ द्विधामनःपर्ययचित्प्रयुक्तान् द्विपंचसप्तद्वयपूर्वसक्तान् । अष्टाङ्गनैमित्तिकशास्त्रदक्षान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥३॥ विकुर्वणाख्यर्द्धिमहाप्रभावान् विद्याधरांश्चारणप्रर्द्धिप्राप्तान् । प्रज्ञाश्रितान्नित्यखगामिनश्च स्तुवे गणेशानपि तद्गुणाप्त्यै ॥४॥ आशीविषान् दृष्टिविषान्मुनीन्द्रानुग्रातिदीप्तोत्तमतप्ततप्तान् । महातिघोरप्रतपाप्रसक्तान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥५॥ वन्धान सुरै?रगुणांश्च लोके पूज्यान बुधैर्घोरपराक्रमांश्च । घोरादिसंसद्गुणब्रह्मयुक्तान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥६॥ आमा खेलार्द्धिप्रजल्लविट्प्र--सर्वर्द्धिप्राप्तांश्च व्यथादिहंतृन् । मनोवचाकायबलोपयुक्तान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥७॥ सत्क्षीरसर्पिमधुरामृतर्झन् यतीन् वराक्षीणमहानसांश्च । प्रवर्धमानास्त्रिजगत्प्रपूज्यान स्तुवे गणेशानपि तद्गुणाप्त्यै ॥८॥ सिद्धायलयान् श्रीमहतोऽतिवीरान् श्रीवर्द्धमानर्द्धिविबुद्धिदक्षान् । सर्वान् मुनीन् मुक्तिवरानृषीन्द्रान् स्तुवे गणेशानपि तद्गुणाप्त्यै ॥९॥ नृसुरखचरसेव्या विश्वश्रेष्ठर्द्धिभूषा
विविधगुणसमुद्रा मारमातङ्गसिंहाः । भवजलनिधिपोता वन्दिता मे दिशन्तु
मुनिगणसकलान् श्रीसिद्धिदाः सहपीन्द्रान् ॥१०॥ १–संसूचितो गणधरवलयपाठः प्रतिक्रमणपुस्तके नोपलब्धोऽतः सकलकीर्तिकृतगणधरवलयपूजातो निष्कोश्य संयोजितः ।
For Private And Personal Use Only