SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ काव्यप्रकाशखण्डन आत्ते गृहीते सीमन्तरत्ने शिरोऽलङ्काररत्ने भरकतिनि मरकतयुक्ते हेग्नः सुवर्णस्य ताटपने नोटीति प्रसिद्ध हृते सति, मेखलायां क्षुद्रघण्टिकायां लुप्तायां गृहीतायां झटिति शी मणेः रनम तुलाकोटिर्नुपुर ताम्मे गृहीते सति, हे राजन् ! स्वच्छत्रुस्त्रीणां अरण्ये बने इत्वरीणां गमनशीलानां हाई पालरा मिला न हरन्ति गृहन्ति । कीदृशम् ! बिम्बप्रायस्पौष्ठस्य फान्त्या रुचा शोणं रक्तं गुञ्जाफलानां सज इति बुद्धयेत्यर्थः । अत्र तद्गुणमपेक्ष्य प्रान्तिमता प्रादुर्भूतं तदाश्रयणेन तद्गुणः प्रभूतचमत्कारनिमित्तमित्येतयोरगातिभावः । एवं रूपः सङ्करः शब्दालङ्कारयोरपि दृश्यते । उदाहरणं खयमवगन्तव्यम् । एफस्य च आहे न्यायदोषाभावादनिश्चयः ॥ (का० १४०, २०) एकस्य एकतरस्येत्यर्थः । न्याय-दोषौ साधक-बाधकप्रमाणौ । तथा च एकत्र [प. ५९, १] काव्ये द्वयोर्बहना बाऽलकाराणां प्रसङ्गे संभवत्येकतरस परिग्रहे साधकमाधकप्रमाणाभावात् संशयः ससंदेहसङ्कर इत्यर्थः । यथा - नयनानन्ददायीन्दोबिम्बमेतत् प्रसीदति । अधुनाऽपि निरुद्धाशमविशीर्णमिदं तमः ॥ - इदं इन्दोम्बिं चन्द्रमण्डलं प्रसीदति प्रसाद प्रामोति । इदं तमः विशीर्णम् । कीरशम् ! विनिरुद्धा आच्छन्ना दिग् येनेत्यर्थः । प्रसीदतीत्यस्योभयत्रान्वयादित्यर्थः । अत्र किं कामसोद्दीपनकालो वर्चते ? - इति भङ्गयन्तरेण कथनात् किं पर्यायोक्तम् ? उत तदाननसेन्दुबिम्बस्य तथाध्यवसायादतिशयोक्तिः । किमेतदिति वक्त्रं निर्दिश्य तद्रपारोपणाद् रूपकमिदमित्यादिवडूनां संदेहादयमेव सङ्करः । यत्र पुन: - 'सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासधुतिः।' .. इत्यादी हासधुतिर्यकत्र एव संभवतीत्युपमायाः साधिका, रूपकस्य तु बाधिका । तथा. . पादाम्युजं जयत्यस्सा मञ्जमजीरसिञ्जिताम् ।' __इत्यत्र मञ्जीरसिञ्जितमम्बुजेनास्तीति रूपकस्य साधकमुपमायाश्च बाधकमिति तत्र न सन्देहसहरः । एवमन्यत्रापि भाव्यम् । स्फुटमेकत्र विषये शब्दार्थालङ्कतिद्वयम् । • व्यवस्थितं थ. (का० १४१, ३०) एकस्मिन्नेव स्पष्टतया यदुमावपि शब्दार्थालङ्कारी व्यवस्था संपादयतः सोऽप्यपरः । यथा - स्पष्टोल्लसरिकरणकेसरसूर्यबिम्ब विस्तीर्णकर्णिकमथो दिवसारविन्दम् । श्लिष्टाष्टदिग्दलकलापमुखावतारे बद्धान्धकारमधुपावलि संकोच ॥
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy