________________
दशभ उल्लास
शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थूलाखिलविधिव्यासङ्गभङ्गाकुलः 1 हा शैत्यं तुहिनाचलस्य करयोरित्युचिवान् सस्मितं शैलान्तःपुर [५०५५१] मातृमण्डलगणैर्टष्टोऽवता वः शिवः ॥
वो युष्मान् शिवः भव्याद् रक्षतु । कीदृश: ? शैलेन्द्रेण हिमाचलेन प्रतिपाद्यमाना दीयमाना या गिरिजा पार्वती तस्या हस्तोपगूहेन हस्तस्पर्शेन उल्लसद् व्यक्ती भवद् यद् रोमाचा दि रोमाञ्चकं यः खरभङ्गादिः तेन बिसंस्थुलो विसदृशः योऽखिलः समस्तो विधिविधानं तेन यो व्यासङ्गस्तस्य भङ्गे भङ्गार्थमाकुलो व्याकुलः, सस्मितं यथा स्यादेवं तुहिनाचलस्य हिमगिरेः, हा शैत्यमित्युचिवान् कथितवान् । अन्तःपुरे हिमाचलस्यान्तःपुरे यो मातृमण्डलानां गणः समूहस्तेईष्टोऽयलोकित इत्यर्थः । अत्र पार्वतीस्नेहस्य प्रच्छन्नतथाऽनुवर्तमानस्य करस्पर्शजन्यरोमावादिनोद्भिद्यमानस्य हिमालयकरस्पर्शजन्यत्वं प्रतिपादयता पुनर्निगूहनाद व्याजोक्तिरित्यर्थः ।
शिष्टा कल्पिते ।
ताहगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ (का० ११९ ) प्रमाणान्तरावगतमपि वस्तुशब्देन प्रतिपादितं प्रयोजनान्तराभावात् सदृश वस्त्वन्तरव्यवच्छेदाय भवति पर्यवस्यति सा परिसंख्या । अत्र कथनं प्रश्नपूर्वकं तदन्यथा च । यथा - किं ध्येयं विष्णुपदं किं वक्तव्यं हरेर्नाम । किं कार्यमार्यचरितैरभिलपितं पूजनं विष्णोः ॥ अमनपूर्वकं यथा
कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥ यथोत्तरं चेत् पूर्वस्य पूर्वस्यार्थस्य हेतुना । तदा कारणमाला स्यात्. (का० १२० ) उत्तरं उत्तरं प्रति यथोत्तरम् । यथा -
जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥ अथ हेतोरभेदतः उक्तिर्हेतुमती हेतुः । यथा -
९१
अविरलकमल विकासः सकलालिमद ( द ) कोकिलानन्दः । रम्योऽयमेति सुन्दरि ! लोकोत्कण्ठाकरः कालः ॥
१ मु. पु. 'संमति' इति पश्यते ।