SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ दशम उल्लास ज्योस्लाचन्दनमाला हालाहलतां परिप्राप्ताः। संप्रति सुदृशो हन्ताऽनेन किमुक्तेन न ब्रूमः ॥ न म इति निषेधो निरहे शीतलानामपि दुरुत्सहत्त्वस्य अतिप्रसिद्धस्वं व्यनक्ति । क्रियाया प्रतिषेधेऽपि फलष्यक्तिर्विभावना ॥ (का. १०७, ७०) किया कारकन्यापारः प्रसिद्धसामग्रीनिषेधेऽपि तत्कार्यरूपफलस्साभिव्यक्तिर्विभावना । अप्रसिद्ध कारणमाक्षिपतीति न विरोधः । वैयाकरणाः क्रियाया एव हेतुतां मन्यन्ते । तथा च हेतुरूपक्रियाप्रतिषेथेऽपि तत्फलप्रकाशन विभावना । वस्तुतस्तु कारणप्रतिषेधेऽपि कार्यवधनं विमावनेत्यन्ये । यथा - कुसुमितलसानिरहतामय रामलिलदशापि । परिवर्तते स्म नलिनी लहरीभिरनालोडिताऽप्यघूर्णत सा ॥ सा नलिनी कुसुमितलताभिरहताऽपि रुजं म्लानिं अधत्त । अलिकुलैरदष्टापि परिवर्चते स संकुचिता । लहरीभिरनालोडिताऽपि अधूर्णत बनामेत्यर्थः । अत्र लताहननादिकं हेतुस्तएमावेऽपि पीडादिधारणं कार्यमुक्तमिति प्रकृतोदाहरणता । • विशेषोक्तिरखण्डेषु [५० ५२,१] कारणेषु फलावचः। (का• १०८, पू०) फलावचः कार्यानभिधानम् । अत्राप्यप्रसिद्ध कारणं सिद्ध्यतीति न विरोधः । यथा___निशात्ययव्यञ्ज(जि?)नि पङ्कजानामामोदमेदखिनि गन्धवाहे । न मुञ्चते कैतवबद्धनिद्रावन्योऽन्यकण्ठग्रहणं युवानी ।। यथासङ्घ क्रमेणैव ऋमिकाणां समन्वयः ॥ (का० १०८, उ०) यथासयमिति यथासरूयनामालङ्कार इत्यर्थः । क्रमेण पूर्वस्य पूर्वेण मध्यमस्य मध्यमेन अन्त्यस्य अन्त्येनेत्यर्थः । यथा एकत्रिधा वससि चेतसि चित्रमेतत् देव द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुष्यन् शौर्योष्मणा च विनयेन च लीलया च ।। देव द्विषां चेतसि शौर्योमणा तापं पुष्णन् , विदुषां चेतसि विनयेन संमदरसं पुष्णन् , मृगीदृशां चेतसि लीलया रति पुष्णन् एको विष्णुस्त्रिधा चेतसि वससीत्यर्थः । सामान्य या विशेषो वा योन्येन समर्थ्यते । शेयः सोऽर्थान्तरन्यासः साधय॑णेतरेण वा ॥ (का० १.९) अनुपपद्यमानतया संभाव्यमानस्वार्थस्य उपपादनाथ यदर्थान्तरस्य न्यसनं उपपादकत्वेन न्यासः स अर्थान्तरन्यासः । तत्र सामान्यस्य विशेषो विशेषस्य सामान्यं समर्थकमिति द्वौ; तत्रापि साधर्म्य-वैधाभ्यां भेदद्वयमिति चत्वारो भेदाः । साधम्र्येण तत्रापि सामान्यविशेषेण । यथा-- .....पु. सदस्येम' इति पाठः । २ मु.पु. 'यसु' इति ।
SR No.090255
Book TitleKavyaprakashkhandan
Original Sutra AuthorN/A
AuthorSiddhichandragani
PublisherZZZ Unknown
Publication Year
Total Pages130
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy