SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ कातन्त्ररूपमाला इंद्रिये धनरोधे च रुर्भये च प्रकीर्तितः । लो दीप्तौ घालश्च भूमौभये चाह्लादनेऽपि च ।। ३० ॥ लो वाते लवणे च स्याल्लो दाने च प्रकीर्तितः । ल: श्लेषे चाशये चैव प्रलये साधनेऽपि लः ॥ ३१ ॥ मानसे वरुणे चैव लकार: सांत्वनेऽपि च । विश्न पक्षी निगदितो गमने वि: प्रकीर्तितः ॥ ३२ ॥ शं सुखं शंकर श्रेय: शश सोरी निगद्यते । शयने श: समाख्यातो हिंसायां शो निगद्यते ॥ ३३ ॥ ष: कीर्तितो युधैः श्रेष्ठे षश्च गंभीर लोचने । उपसगें परोक्षे च षकारः परिकीर्तितः ।। ३४ ॥ स: कोपे वरुणे स: स्यात्तथा शूलिनिकीर्तितः । सा च लक्ष्मीर्बुधैः प्रोक्ता गौरी सा च सः ईश्वर ॥ ३५ ॥ ह: कोषे वारणे हश्व तथा शूली प्रकीर्तितः । हि: पद्यपूरणे प्रोक्तो हि: स्यात्विवधारणे ॥ ३६ ॥ क्ष: शेने वक्षति गोलो तुझे ग मदशाहो । क्षि: क्षेत्रे क्षेत्ररक्षे च नृसिंहे च प्रकीर्तितः ।। ३७ ॥ आगमेभ्योऽभिधानेभ्यो धातुभ्यः शब्दशासनात् । एवमेकाक्षरं नामाभिधानं सुकृतं मया ।। ३८ ।। ॥इति पुरुषोत्तमकृत एकाक्षरीकोश: ।।
SR No.090251
Book TitleKatantra Roopmala
Original Sutra AuthorSharvavarma Acharya
AuthorGyanmati Mataji
PublisherDigambar Jain Trilok Shodh Sansthan
Publication Year1992
Total Pages420
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy