________________
२१
શ્રી શાંતિનાથ પ્રાચીન તાડપત્રીય જૈન જ્ઞાનભંડાર, ખંભાતના સંગ્રહસ્થિત
આખ્યાનકમણિ કોશવૃત્તિની લિપીકૃપ્રશસ્તિ प्राग्वाटवंशतिलकोऽजनि पूर्णदेवस्तस्यात्मजात्रय इह प्रथिता बभूवुः। दुर्वारमारकरिकुम्भविभेदसिंहस्तत्रादिम: सलखणोऽभिधया बभूव ।।१।। .. द्वितीयकोऽभूद् वरदेवनामा, तृतीयकोऽभूजिनदेवसंज्ञः। सोऽन्येधुरादत्तजिनेन्द्रदीक्षां निर्वाणसौख्याय मनीषिमुख्यः ॥२॥ अज्ञानध्वान्तसूर्यः सरभसविलसच्चनसंवेगरण - क्षोणी क्रोधादियोधप्रतिहतिसुभटो ज्ञातनि:शेषशास्त्रः। निर्वेदाम्भोधिमग्नो भविककुवलयोबोधनाधानचन्द्र कालेनाऽऽचार्यवर्यः स समजनि जगच्चन्द्र इत्याख्यया हि ||३|| वरदेवस्य सञ्जज्ञे वाल्हेविरिति गहिनी। याऽभूतु सदा जिनेन्द्राहिकमलासेवनेऽलिनी ||४|| पुत्रास्तयोः साठलनामधेयाऽरिसिंहइत्याहय-वज्रसिंहाः। विवेकपात्री महज च पत्री कशीलसंसर्गतरोलवित्री ||५|| साढलस्य प्रिया जज्ञे राणप्रिति महासती । पुत्रास्तु पञ्च तत्राद्यो धीणाख्य: शुद्ध धर्मधीः ||६|| द्वितीय: क्षेमसिंहाख्यो, भीमसिंहस्तृतीयकः । देवसिंहाभिधस्तुर्यो, लघुर्महणसिंहकः ।।७|| क्षेमसिंहाभिधो देवसिंहश्च भवभीरुकः । श्रीजगच्चन्द्रसूरीणां पार्श्वे व्रतमशिश्रियत् ।।८।। धीणाकस्य कडूर्नाम पत्नी मोदाभिधः सुतः। अन्येयुः सुगुरोबाक्यं धीणाकः श्रुतवानिति ||९|| भोगास्तुङ्गतरङ्गभङ्गभिदुरा: सन्ध्याभ्ररागभ्रमौपम्या श्रीनलिनीदलस्थितपयोलोलं खलु प्राणितम्। तारुण्यं तरुणीकटाक्षतरलं प्रेमा तडित्सन्निभो ज्ञात्वैव क्षणिक समं विदधतां धर्मं जनाः ! सुस्थिरम् ॥१०॥ सज्ज्ञानयुक्तो नियतवृषोऽपि भवेन्महानन्दपदप्रदायी । तत्रापि च स्वाऽन्यविबोधकारीत्याहुः श्रुतज्ञानमिहोत्तम हि ॥११॥ तञ्च कालमतिमान्द्यदोषत: पुस्तकेषु भुवनैकवत्सलैः। पूर्वसूरिभिरथो निवेशितं तद् वरं भवति तस्य लेखनम् ||१२|| एवं निशम्य तेन न्यायोपार्जितधनेन धन्येन। आख्यानकमणिकोशस्य पुस्तकोऽयं व्यधायि मुदः ॥१३॥ यावद्दारुणदुःखलक्षजलदप्रध्वंसचण्डानिलो रागद्वेषमदान्धसिन्धुरहरिः स्वर्गापवर्गप्रदः । अज्ञानद्रुमपावको विजयते श्रीजैनराजागमस्तावन्नन्दतु पुस्तकोऽयमनिशं वावच्यमानो बुधैः ॥१४||
।। मंगलं महाश्री: छ।।