________________
सप्ततिकाप्रकरणम्
यथाप्रवृत्तकरणमपूर्वकरणं च परिपूर्ण स्यान्नवरमिहापूर्वकरणे गुणसंक्रमो न वाच्यः, किन्तु स्थिनिघात-रसघा तस्थिनिबन्ध-गुणश्रेणयएववाच्या:,गुणश्रेणिदलिकरचनाऽप्युदयसमयादारभ्यावगन्तव्या ।ततोऽनिवृत्तिकरणेऽप्येवमेव वाच्यम्। अनिवृत्तिकरणाद्धायाश्च संख्येयेषु भागेषु गतेषु सत्स्वेकस्मिन् संख्येयतमे भागेऽवतिष्ठमानेऽन्तर्मुहर्तमानमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणमन्तर्मुहूर्तप्रमाणं प्रथमस्थितेः किश्चित्समधिकमभिनवस्थितिबन्धाद्धासमेनाऽन्तर्मुहर्तेन कालेन करोति। अन्तरकरणसत्कं च दलिकमुत्कीर्य प्रथमस्थिती द्वितीयस्थितौ च प्रक्षिपति। प्रथमस्थितौ च वर्तमान उदीरणाप्रयोगेण यत्प्रथमस्थितिगतं समाकृष्योदये प्रक्षिपति सा उदीरणा। यत्पुनर्द्वितीयस्थितेः सकाशादीरणाप्रयोगेणैव दलिकं समाकृष्योदये प्रक्षिपति स आगाल, उदीरणाया एवं विशेष प्रतिपत्त्यर्थमागाल इति द्वितीयं नाम। उदयोदीरणाभ्यां च प्रथमस्थितिमनुभवन् नावद्गतो यावदावलिकाद्विकं शेषं तिष्ठति, तस्मिंश्च स्थिते आगालो व्यवच्छिद्यतेऽत उदीरणैव केवला प्रवर्त्तते, साऽपि तावद् यावदावलिकाशेषो न स्यात् ततः केवलेनैवोदयेनाबलिकामात्रमनुभवति । आबलिकामात्रचरमसमये द्वितीयस्थितिगतं दलिकमनुभागभेदेन त्रिधा करोति, तद्यथा- सम्यक्त्वं सम्यग्मिथ्यात्वं मिथ्यात्वं च । ततोऽनन्तरसमये मिथ्यात्वदलिकस्योदयाभावादौपशमिकं सम्यक्त्वमवाप्नोति । एष च सम्यक्त्वप्रथमलाभो मिथ्यात्वस्य सर्वोपशमनात् स्यात् । सम्यक्त्वं चेदं प्रतिपद्यमानः कश्चिद्देशविरतिसहितं प्रतिपद्यते, कश्चित्सर्वविरतिसहितम्। ततो देशविरनप्रमत्ताप्रमत्तसंयनेष्वपि मिथ्यात्वमुपशान्तं लभ्यते ।
सम्प्रति वेदकसम्यग्दृष्टेर्दर्शनत्रयस्योपशमनाविधिरुच्यते- इह वेदकसम्यम्दृष्टिः संयमे बर्तमानः सन्नन्तर्मुहूर्त्तमात्रेण कालेन दर्शनत्रयमुपशमयति, उपशमयतश्च करणत्रयविधिः पूर्ववत् तावद्वाच्यो यावदनिवृत्तिकरणाद्धायाः संख्येयेषु भागेषु गनेषु सत्स्वन्तरकरणं करोति, तच्च कुर्वन् सम्यक्त्वस्य प्रथमस्थितिमन्नर्मुहूर्तप्रमाणां स्थापयति, मिथ्यात्वमिश्रयोश्वावलिकामात्रमुत्कीर्यमणि च दलिकं त्रयाणामपि सम्यक्त्वस्य प्रथमस्थितौ प्रक्षिपति, मिथ्यात्वमिश्रयोः प्रथमस्थितिदलिकं सम्यक्त्वप्रथमस्थितिदलिकमध्ये स्तिबुकसङ्क्रमेण सङ्क्रमयति, सम्यक्त्वस्य पुनः प्रथमस्थिती विपाकानुभवतः क्रमेण क्षीणायामौपशमिकसम्यग्दृष्टिः स्यादुपरितनदलिकस्य चोपशमना त्रयाणामपि मिथ्यात्वादीनामनन्तानुबन्धिनामुपरितनदलिकस्यैव ज्ञेया। एबमन्येषामप्युपशमना विस्तरभयान्न लिख्यतेऽन्तरकरणं च कृत्वा नपुंसकवेदमुपशमयति, तस्मिंश्चोपशान्तेऽटौ कर्माण्युपशान्तानि जातानि। स्त्रीवेदे उपशान्ते ९ । हास्यादिषट्कोपशान्तौ १५ | तस्मिन्नेव च समये पुरुषवेदस्य बन्धोदयोदीरणाव्यवच्छेदः । पुरुषवेदे चोपशान्ते १६ । ततोऽप्रत्याख्यानप्रत्याख्यानावरणक्रोधयोरुपशान्तौ १८ । नतः संज्वलनक्रोधोपशान्तौ च १२ । अप्रत्याख्यानप्रत्याख्यानमा