SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ सप्ततिकाप्रकरणम् च सत्यपूर्वकरणस्य प्रथमसमये यत्सत्कर्माऽऽसीत् नस्यैव चरमसमये संख्येयगुणहीनं जातम् । रसघातो नाम-अशुभप्रकृतीनां यदनुभागसत्कर्म तस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेनैव कालेन विनाशयति । ततः पुनरपि तस्य प्राग्मुक्तस्यानन्ततमभागस्यानन्ततमं भागं मुक्त्वा शेषाननुभागभागानन्तर्मुहूर्तेन कालेन विनाशयति एवमनेकाऽनुभागखण्डसहस्राण्येकस्मिन् स्थितिखण्डे व्यतिक्रामन्ति तेषां च स्थितिखण्डानां सहस्रैरपूर्वकरणं परिसमाप्यते । J गुणश्रेणिर्नाम- अन्तर्मुहूर्त्तप्रमाणानां स्थितीनामुपरि याः स्थितयो वर्त्तन्ने तन्मध्यादलिकं गृहीत्वोदपावलिकाया उपरितनीषु स्थितिषु प्रतिसमयसंख्येयगुणतया निक्षिपति । नद्यथा प्रथमसमये स्तोकं, द्वितीयसमयेऽसंख्येयगुणमेवं तावन्नेयं यावदन्तर्मुहूर्त्त चरमसमयस्तच्चाऽन्तर्मुहुर्तमपूर्वकरणाऽनिवृत्तिकरणकालाभ्यामनागतिरिक्त द्रष्टव्यम् । एष प्रथमसमयगृहीतदलिकस्य निक्षेपविधिरेवं द्वितीयादिसमयगृहीतानामपि दलिकानां निक्षेपो वाच्यः । अन्यच्च गुणश्रेणिरचनाय प्रथमसमये यद्दलिकं गृह्यते तत्स्तोकं, ततोऽपि द्वितीयसमयेऽसंख्येयगुणमेवं तावज्ज्ञेयं यावद् गुणश्रेणिकरणचरमसमय अपूर्वकरणसमयेष्वनिवृत्तिकरणसमयेषु चानुभवत: क्रमशः क्षीयमाणेषु गुणश्रेणिदलिकनिक्षेपः शेषे शेषे भवति, उपरि न वर्द्धते । गुणसङ्क्रमो नामाऽपूर्वकरणस्य प्रथमसमयेऽनन्तानुबन्ध्यादीनामशुभप्रकृतीनां दलिकं यत्परप्रकृतिषु सङ्क्रामयति तत्स्तोकं, ततो द्वितीयसमये परप्रकृतिषु सङ्क्रम्यमाणमसंख्येयगुणमेवं तृतीयादिष्वपि वक्तव्यम् । अन्यः स्थितिबन्धो नाम अपूर्वकरणस्य अन्य एवाऽपूर्व: स्तोकः स्थितिबन्ध आरभ्यते । स्थितिबन्ध-स्थितिघातौ च युगपदाराभ्येते युगपदेव च निष्ठां यातः । एवमेते व पदार्था अपूर्वकरणे प्रवर्तन्ते । १७६ - अनिवृत्तिकरणं नाम यत्र प्रविष्टानां सर्वेषामपि तुल्यकालानामेकमेत्राध्यवसायस्थानम् । नवरं प्रथमसमयभाविविशोभिस्थानापेक्षया द्वितीयसमयभाविविशोधिस्थानमनन्तगुणमेवं तावद्वाच्यं यावदनिवृत्तिकरण चरमसमयोऽनएवास्मिन् प्रविष्टानां तुल्यकालानामसुमतां सम्बन्धिनामध्यवसायस्थानानां परस्परं निवृत्तिर्व्यावृत्तिर्नास्तीत्यनिवृत्तिरिति नाम । अस्मिंश्वानिवृत्तिवादरकरणे यावन्तः समयास्तावन्त्यध्यवसायस्थानानि पूर्वस्मात् पूर्वस्मात् अनन्तगुणवृद्धानि । अत्रापि चाऽऽयसमयादेवारभ्य पूर्वोक्ताः पञ्च पदार्था १० णस्य प्रथमसमयेऽन्य प० ।
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy