SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ | १६८ गुणरत्नसूरिविरचित-अवचूर्ण्यपेतं बल्किाशेषायां सम्यक्त्वस्योदय एव नोदीरणा । संज्वलनलोभस्योदय उदीरणा च युगपत् तावत्प्रवर्त्तते यावत्सूक्ष्मसम्परायाद्धाया आवलिकाशेषस्तत आवलिकामात्रं कालमुदय एव नोदीरणा । तथा त्रयाणां बेदानामन्यतमेन तेन तेन वेदेन श्रेणिप्रतिपन्नस्यान्तरकरणे कृते तस्य तस्य वेदस्य प्रथमस्थितादावलिकाशेषायामुदय एव नोदीरणा । चतुर्णामप्यायुषां स्वस्वभवपर्यन्तावलिकायामुदय एव नोदीरणाऽन्यच्च मनुष्यायुषः प्रमत्तगुणस्थानकादूर्ध्वमुदीरणा न स्यात् किन्नूदय एवकेवलः । तथा मनुष्यगति-पञ्चेन्द्रियजाति- त्रस बादरपर्याप्त-सुभगादेय-यशःकीर्त्ति - तीर्थंकररूपाणां नवनामप्रकृतीनामुच्चैर्गोत्रस्य च सयोगिकेवलिगुणस्थानकं यावद् युगपदुदयो- दीरणे, अयोग्यवस्थायां नूदय एव नोदीरणा ||५६ || सम्प्रति [कस्मिन्] गुणस्थानके का: प्रकृतीबध्नातीति बन्धविशेषनिरूपणार्थमाह — तित्थगराहारगविरहियाओ अज्जेइ सब्बपगईओ । मिच्छत्तवेयगो सासणो विइगुवीससेसाओ ॥ ५७॥ तित्थ० मिथ्यात्ववेदको मिथ्यादृष्टिस्तीर्थकराहारकरहितास्तीर्थकराहारक शरीराहारकाङ्गोपाङ्गबर्जा: शेषाः सर्वा अपि प्रकृती : ११७ संख्या अर्जयति-बध्नाति । तथा सासादनोऽप्येकोनविंशतिशेषा:- एकोनविंशतिवर्जा: शेषाः १०१ प्रकृतीर्बध्नाति ॥५७ || छायालसेस मीसो अविरयसम्मो तियालपरिसेसा । तेवण देसविरओ विरओ सगवण्णसेसाओ ॥५८॥ छाया स्पष्टा ३५८|| अधुना प्रतिषेद्धव्याः प्रकृतयो बहुल्यो, बन्धयोग्यास्तु स्तोका इति बन्धयोग्या एवाहइगुसमिप्पमत्तो बंधड़ देवाउयस्स इयरो वि। agarayat छप्पण्णं वा विछवीसं ॥५९॥ इगु० अप्रमत्त एकोनषष्टिप्रकृतीर्बध्नाति । तथेतरोऽप्यप्रमत्तोऽपि देवायुषो बन्धकः । एतेनैतत्सूच्यते--→ प्रमत्तसंयत एवायुबन्धं प्रथमत आरभते, आरभ्य च कश्चिदप्रमत्तभावमपि गच्छति, तत एवमप्रमत्तोऽपि देवायुषो बन्धकः स्यात् । शेषव्याख्या कर्मस्तवा नुसारेण कर्त्तव्या || ५९ ||
SR No.090238
Book TitleKarmagranthashatkavchurni
Original Sutra AuthorN/A
AuthorGunratnasuri, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages220
LanguageSanskrit
ClassificationBook_Devnagari, Karma, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy