SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 3०६ 'भत्राधि-यितामा वन्दे महाविदेहे जिनाँश्चतुःषष्टिविजयसंभविनः। केवलकिरणोद्द्योतितजगत्रया (ध्वस्त) संतमसान् ॥४॥ श्रीपुष्करार्धनाम्नि च तावत एव प्रमाणतः प्रयतः । परमेष्ठिनः समभिष्टौमि नष्टकाष्टविद्वेष्यान् ॥५॥ वरकनकशंखविद्रुममरकतघनन्निभं विगतमोहं । . सप्ततिशतं जिनानां सर्वामरपूजितं वन्दे ॥६॥ दवदहनं भूभृदंभस्तस्करविद्युत्फणीभविस्फोटम् । हरिमारिबन्धनभयं तत्कालं संस्मृतं हरति ॥७॥ यो यंत्रस्थं ध्यायति सप्ततिशतमहतां पुलकिताङ्गः । न भवंति रुजो नश्यंति वारयस्तस्य सर्वेऽपि ॥८॥ द्वौ सप्त सप्तसप्ततिरशीतिरथ संयुता चतुर्भिश्च । एकाशीतिरशीतिः षट् च त्रयोऽनौ तथैकः स्यात् ॥९॥ यधिकाशीतिः सप्ततिरष्टयुक्ताऽशीतिरेकयोना च । द्वयशीतिश्चत्वारः पंच च यंत्रे विधिज्ञेयः ॥१०॥ क्षितिपतिमतिसंक्रुद्धं जपितं बीजाक्षरैः प्रसाधयति । हरहुंहः सरसुंसः ॐ क्लीं ह्रीं हुं फट् स्वाहा ॥११॥ घनसारचंदनद्रव्यैलिखितं पात्रे पयः प्रपोतं च । विस्फोटनाशनं खलु कुर्यात् द्वारे तथा न्यस्तम् ॥१२॥ पापमलं दहति भृशं हृत्पंकजकोटरे तथा ध्यातम् । त्रिभुवनमपि वशमानयति यंत्रमेतत् प्रपूजयतः ॥१३॥ षोडशकोष्ठगतं यः सबीजमेतत् करेऽनिशं दध्यात् । तस्य करस्था पुंसः कल्याणपरंपरा सकला ॥१४॥ इति सप्ततिशतजिनपतिसंस्तवनं ये प्रपठ्य पटुमतयः। ध्यायति मनसि तेषां तु हरिभद्रं पदं सुचिरम् ॥१५॥ -इति सप्ततिशतं यंत्रविधिः-द्वितीययंत्रस्तोत्रं ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy