SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः ] श्रीमन्त्राधिराजकल्पः । २८५ अपदद्विपदचतुःपदजनपदवशतां वशार्थिनां सततम् । अभिजातिजने निधनं स्तम्भनमथ मोहनं सुमहत् ॥१०॥ ऋद्धिं बुद्धिं सिद्धिं मतिं गतिं संस्मृतिं जने प्रीतिम् । कीर्ति स्फूर्तिमनतिं दत्ते वामासुतो ध्यातः ॥१०४॥ कुलकम्। इतिभाववर्णनम् । मन्त्राधिराज ! जिनराज ! तव प्रसादा दासादयन्ति यदिहाभिमतानि भव्याः । चित्रं किमत्र सुरमानवसर्पनाथ___ सम्प्रार्थितं निजपदं हि यतो ददाति ॥ ॥१०५।। वामेय ! वाक्पतिमतिप्रकरोर्जितोऽपि ___ को वक्तुमत्रभवतोऽतिशयान् प्रगल्भः । यस्य प्रसादलवतोऽप्यचिरात् प्रसूते वन्ध्या तनूजमपि पश्यति नेत्रहीनः ॥१०६॥ देवाधिदेवाघिसरोजसेवाहेवाकमेवाकलयामि तेऽहम् ।। तदस्मि हंसः सुगतिप्रशंसोऽसत्सज्जलक्षीरविवेकमिच्छुः ॥१०७॥ त्वद्ध्यानसन्धानसुधानिपानपानान्न दीनाऽऽननतां भजन्ते। . कीनाशसेनां सगदां विजित्य मृत्युजितो यान्ति शिवालयं ते ॥१०८॥ सौभाग्यमारोग्यमवन्ध्यभाग्यं श्रीकीर्तिविस्फूर्तिमनार्तिमन्तः । अत्रापि मन्त्रस्मरणाल्लभन्ते सद्यः समुद्यद्वरभक्तिभाजः ॥१०९॥ त्वदङ्गसङ्गयुतियामुनाम्भः स्नानेऽपि गङ्गाजलवद् विशुद्धाः । चकासति त्वां समुपासते ये प्रभो ! प्रभूणां महिमा महीयान् ॥११०॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy