SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ૩૭૮ श्रीजैनस्तोत्रसन्दोहे [ श्रीसागरचन्द्रअष्टरवविधुप्रमाणे पति नरो योऽनिशं विशङ्कः सन् । तदरिकुलं विद्वेषं मिथः प्रयातीह वामेयात् ॥३९॥ नार्या नरेण साकं नार्या सार्धं नरस्य विद्वेषम् । कुरुते कृष्णाशयतो ध्यातो वामासुतः सततम् ॥४०॥ शत्रूयति मित्रततिः सर्पति जनकः सपत्नति सवित्री । दस्यूयति दयितापि हि साधकशत्रोर्जिनप्रभावाच्च ॥४१॥ इति विद्वेषयन्त्रं द्वितीयम् ॥२॥ भाले हीमैं स्कन्धे ए स्कन्धे टो भुजे च कुक्षावोम् । हः कटिगो जानुनि फुः पादे 3 · नाभिगो ह्रीं वः ॥४२॥ टो लिङ्गे चरणे हां हः कटयां जानुनि स्वा तथैव । माया कुक्षौ हस्ते हा कुचयोर्यस्तथा हि फुः शिरसि ॥४३॥ सम्पुटयोगविधायी सरोजमुद्राविचक्षणो मन्त्री । रक्ताशयो वषटकृत् पूर्वाभिमुखस्त्विदं यन्त्रम् ॥४४॥ उदयति हिमरुचि विलसति सलिलधरामण्डले ह्यनामिकया। जपमालां संवास्य प्रफुल्लहृदयश्च साधको ध्यायन् ॥४५॥ कर्पूरगन्धधूली कुङ्कुमगोरोचनादिभिर्विमलगन्धैः । अभिलिख्य भूर्यपत्रे रक्तैः कुसुमैर्वसुखचन्द्रमितैः ॥ ४६ ॥ पूर्वान्हे पूजयति च रक्ताशययुक् जिनेश्वरं भक्त्या । तस्यावश्यं वश्यं प्रयात्यरं विष्टपत्रितयम् ॥४७॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy