SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ सूरिविरचितः] श्रीमन्त्राधिराजकल्पः । जय जयेति वदद्वदनाम्बरो जिनपदावभिनम्य सिताम्बरः । रजतहेममृदां वरकर्णिकामयमथो कुरु मङ्गलदीपकम् ॥ ७ ॥ घरणतदयिताविजयाजयाकमठपार्श्वनवग्रहसंयुतम् । सुरपवह्निकृतान्तपलादिनां वरुणवायुकुबेरपिनाकिनाम् ॥ ८ ॥ अजनरायणयोरपि नामभिः प्रणवपूर्वनमोऽन्तगतैरपि । समभिपूजयति स्फुटभक्तियुक् कुसुमधूपफलप्रमुखैः क्रमात् ॥ ९ ।। गुदग-नाभिग-हृद्त-कण्ठगा-5ऽस्यग-ललाटगवत्रचयादिवित् श्वसनपञ्चकचारविचारणाकृदवबुद्धसमस्तसुतत्त्वकः ।। १० ॥ रहसि शीतमयूषमुपागते मरुति चारि कुमण्डलगे सति । कृतसमत्वरसो घनपावनः सुरपदिग्वदनो मदनोज्झितः ॥ ११ ॥ निजकरा वदित् (१) सुधराभवावनिरुहप्रभवं सुदलावलि । अशिथिलं विशदप्रभयान्वितं परिमलप्रसरं तु सुदन्तकम् ॥ १२ ॥ परिहृताखिललोककथाप्रथः कुसुममेकमथैकमुदारधीः । अचलनिश्चलचित्तशरीरकं पवनयुक् प्रविधाय हृदग्रगम् ॥१३॥ स्थिरतरीकृतनेत्रकनीनिको हृतसमस्तखवारमनोहरः । जिनपतिं परिवारयुतं स्मरन्न वचनो मरुता सह साहसी ॥ १४ ॥ जिनपतिक्रमयुग्मतले क्षिपन् रविसहस्रसुमानि पुमानिति । त्रितयमन्त्रजपप्रवराणि वै जपविधिर्गदितः सकलस्त्वसौ ।। १५ ।। कुलकम् । जापान्ते नित्यपूजान्ते स्तवान्ते चैत्यवन्दनाम् । विदध्याद् बुद्धिमान् शुद्धां वामेयस्याग्रतो व्रती ॥ १६ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy