________________
श्रीजैनस्तोत्रसन्दोहे [श्रीसागरचन्द्रशून्यवन्ह्यक्षरभवः प्रभवः सर्वसम्पदाम् । नादबिन्दुकलोपेतः साकारः पञ्चवर्णरुक् ॥ २५ ॥ वामातनूजवामांससंस्थितो रूपकीर्तिदः। धनपुण्यप्रयत्नानि जयज्ञाने ददात्यसौ ॥ २६ ॥ स एवेस्वरसंयुक्तः स्थितो हस्ते जिनेशितुः । योगिभिर्ध्यायमानस्तु रक्ताभोऽतिशयप्रदः ॥ २७ ॥ षष्ठस्वरयुतोऽरिष्नो धूम्रवर्णः स एव हि । पूज्यतां विजयं रक्षां दत्ते ध्यातोऽस्य कुक्षिगः ॥ २८ ॥ विसर्गद्वयसंयुक्तः स एव श्यामलद्यतिः । जिनवामकटीसंस्थः प्रत्यूहव्यूहनाशनः ॥ २९ ॥ सर्वाशिवप्रशमनोऽञ्जनकान्तिर्विसर्गयुक । वामजानुस्थितो ध्यातः षडविंशतितमोऽक्षरः ॥ ३०॥ वामेयवामचरणे पीतवर्णः कषात्मकः । पिशाचग्रहभूतानां शाकिनीनां प्रमर्दनः ॥ ३१ ॥ सुवर्णभरहं नीलवर्णाकारसमन्वितम् । रक्तं प्रसकलं श्यामबिन्दुं कुंभन्दनादयुक् ॥ ३२ ॥ नाभिपद्मस्थितं ध्यायेत् पञ्चवर्ण जिनेशितुः । तस्थुर्ह रे षोडशामी सुवर्णद्युतयो जिनाः ॥ ३३ ॥ ऋषभोऽप्यजितस्वामी सम्भवोऽप्यभिनन्दनः । सुमतिः श्रीसुपार्श्वः श्रीश्रेयांसः शोतलोऽपि च ॥ ३४ ॥