SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ २२७ सूरिविरचितः ] मन्त्राधिराजकल्पः । [२] श्रीसागरचन्द्रसूरिविरचित श्रीमन्त्राधिराजकल्पः। श्री पार्श्वनाथाय नमः । कल्याणाङ्कुरवारिदः शमसुधावा? सुधादीधितिः कारुण्याम्बुजतिग्मरोचिरखिलक्ष्मापीठकल्पद्रुमः । मोहध्वान्तततिप्रदीपकलिका संसारनिस्तारकृत् भव्यानां शिवतातिरस्तु भगवान् वामासुतोऽयं जिनः॥१॥ भ्रभङ्गमङ्ग न दधे नयने न ताने । दधे न शस्त्रमपि नो परुषं बभाषे । कामं जिगाय गतकायममाय एव मेव प्रणम्रकमठः स शिवाय देवः ॥ २॥ श्वभ्रप्रदाऽशुचिरियं प्रथितेति दोषाद् योषां हि संयमवधूवशगो हि हित्वा । बभ्राम मुक्तिललनागमने सरागो ..नीरागतायुगपि यच्छतु शं स पार्श्वः ॥ ३ ॥ अन्तःस्फुरद्गुचिरसञ्चितसप्ततत्त्व कोटोपतिर्जिनपतिः प्रकटध्वजोऽस्तु । वामासुतः फणमिषात् फणिपस्य विश्व-- विश्वार्तिसंहतिहरो व्यवहारिवद् यः ॥ ४॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy