________________
कर्तृकम् ]
श्रीपा' जिनस्तवनम् ।
यूकायवैरथ रथत्रसरेणुभिश्च
विस्तीर्णतां कथयति स्वधियाम्बुराशेः ॥ ५ ॥
ते कर्मभारगुरवः परवावदूका
ये तावकीनवचनान्यपि संशयानाः ।
प्रामाण्यतस्तदुपयन्ति यदाचरन्ति
जल्पन्ति वा निजगिरा ' ननु पक्षिणोऽपि ॥ ६ ॥
कल्याणकक्षणनिरीक्षणमस्तु ते तत्
किंवदन्त्यपि सतां मुदमादधाति ।
यत्पद्मिनीप्रणयिनं भ्रमरं भ्रमन्तं
प्रीणाति पद्मसरसः सरसोऽनिलोऽपि ॥ ७ ॥ सन्नह्य सह्यगुरु (गिरि) कुञ्जरवाजिराजि - प्रेङ्खपदाजिरसभाजि भवत्युपेते । म्लेच्छैरभाजि भुजगैरिव तैरुपान्त
१४
मभ्यागते वनशिखण्डिनि चन्दनस्य ॥ ८ ॥ स्वामिंस्तव क्षम ! ममापि मनागुपेक्षा
मर्हन्ति नो गुणगणाः स्वकसेवकस्य । कामं कषायविषयैः परिमुष्यमाणा
श्वरैरिवाशु पशवः प्रपलायमानैः ॥ ९ ॥ मामीदृशं जडमतिं दृढभक्तिरेव
स्वामिंस्तव स्तवविधौ त्वरयत्यवश्यम् । यत्तोयमुच्छलति तोयनिधेरगाध
मन्तर्गतस्य मरुतः स किलानुभावः ॥ १० ॥
२०९