________________
विरचितम् ]
१७७
श्रीपार्श्वनाथस्तवनम् ।
[ ४५ ] श्रीजिनसमुद्रमुरिसन्दृब्धम्
जेसलमेरुमण्डनश्रीपार्श्वजिनस्तवनम् ।
आनन्दभन्दानप उपने वसन्तं चित्ते सतां शिवपदे च सदा वसन्तम् । विश्वोपकारियरवैभवलाभवन्तं श्रीपार्श्वदेव ! विनुवामि मुदा भवन्तम् ॥ संसारसागरतउ ! करण्ड ! सम्यग् ज्ञानादिरत्ननिचयस्य जगवयस्य !! वामेय ! विश्वजनगेय ! गुणैरमेय ! त्वं गी:पतेरपि गिरां न हि
गोचरोऽसि ॥ २॥ त्वया यदर्धज्वलितस्य तस्य कृतः पुरा कोऽपि महोपकारः । अपि द्विजिह्वो द्विसहस्रजिह्वो बभूव संस्तोतुमिवेनमेव ॥ ३ ।। यत्ते व्यधायि कमठेन कठोरघोरधाराकरालजलवृष्टिरिहोपरिष्टात् । तेनैष केवलमवीवृधदात्मनो वै दुःकर्मवल्लिवनमेव चिरप्ररूढम् ॥४॥ स्फूर्जत्फणामणिधर धरणं भजन्त यच्चापि पातकमठं कमठं द्विषन्तम् । त्वं मन्यसे सदृशमीदशमोश ! लोके नीरागताविलसितं लसितं तवैव ॥ दोषावसानोदितकेवलश्रीकलाकलापाप्रतिपातिरूपः । नीरूप्यसे कश्चन देव ! धन्यर्दिनोदयेऽपि त्वमपूर्वचन्द्रः ॥ ६ ॥ त्वन्नाम वामाङ्गज ! ये जपन्ति नश्यन्ति दूरं दुरितानि तेभ्यः । कुर्वन्ति ये गारुडमन्त्रजापं बाध्यन्त एवाहिविषैः कथं ते ॥ ७॥