________________
श्रीजैनस्तोत्र सन्दोहे [ मुनिश्रीचतुरविजयवस्तुतो न भवनिन्दावरदलासितः । स्वकीर्तिपुरस्तेनेन्दुर्निन्दी वरद ! लासितः ॥ ६ ॥ अपि व्यामोहिताशेषसुरदानवमानवाः । न त्वामचुक्षुमन्नारी सुरदा नवभा नवा ॥ ७ ॥ 'फुल्लत्फणिफणारत्नरुचिराजितविग्रहे । त्वयि प्रीतिः स्फुरतु मे रुचिरा जितविग्रहे ॥ ८ ॥ चुषतिमुकुटप्रोद्धृष्टांहिं जगत्कमलाकर
१७६
द्युपतिमनघं स्तुत्वेति त्वां कृताञ्जलिर्थये । प्रशमजलधे ! मां सद्य प्रसद्य वितार्यतां
प्रशमनविधौ भावारीणां जिन ! प्रभविष्णुता ॥ ९॥
[ ४४ ]
मुनिरत्नश्रीचतुरविजय विरचितं श्रीपार्श्वनाथस्तोत्रम् |
निराज ! सदा तव मे शरणं शरणागतवत्सल ! पार्श्वविभो ! | गुणिनां विदधासि शिवं सुभगं सुभगेत्यवगत्य ततस्तरसा ॥१॥ अहमागत आप्त ! भवच्चरणं चरणे मम देहि मतिं विमलाम् । विमलं मम मानसमीश ! कुरु यदि चेत् तव दानगुणोऽवितथः ॥ गुणिनां भविनां विभवं कुरुषे किमु चित्रमिदं तदहो मुनिप ! | मुनिपापमिमं यदि तारयसि भवतीश ! तदा तव तारकता ॥ ३ ॥ मदमानयुतं व्यसनैर्व्यथितं मथितारिगणेश ! विधाय कृपाम् ॥ समये भणिताच्च रणाद् विमुखं जिन ! तारय मां गुणहीनमिमम् ॥ चरितं मम तीर्थपते ! गहनं भणतीति नियोज्य करौ चतुरः । भवसागरपर्यटनं परमं परमेश्वर ! वारय वारय मे ॥ ५ ॥