SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ सूरिप्रणीतम् ] १४९ श्रीजीराउलीपार्श्वस्तवनम् । [३५] श्रीभुवनसुन्दरसूरिप्रणीतं श्रीजीराउलीमण्डनश्रीपाश्वजिनस्तवनम् । श्रीणां पदं सपदि दुर्विपदं विजेतुं 'पार्श्वप्रभुं । सकलमङ्गलकेलिहेतुम् । जीराउलीनगरमण्डनतारहारं तं संस्तुवे त्रिजगदभ्युदयावतारम् ॥१॥ वन्दारुसादरसुरेश्वरमौलिमौलिमाणिक्यमांसलमरीचिचयाम्बुभासि । देव ! त्वदायचरणाम्बुरुहे मदीयं चेतो मधुव्रतकलां कलयत्यजस्रम् ॥ सौवर्णपूरुषसुरद्रुमहाप्रभावधिक्कारकारिणि सुवारिणि दुःकृताग्नौ । त्वदर्शने भवति तीर्थकरे हितार्थसार्थस्तरुर्मम फलेग्रहिरव भावी ॥३॥ श्रीमज्जिनेश्वर ! तव स्तवनप्रभावाल्लप्स्येऽहमुज्ज्वलगुणप्रभवां प्रतिष्ठाम् । प्रातः सहस्रकिरणारुणकान्तियोगात् प्रोत्फुल्लमुल्लसति पङ्करुहं न किं वा।। रागादिवैरिनिकरः परितोऽपि पीडात्रीडावहो मम समस्ति जगत्रयेश!। तत्रायकस्त्वदपरो नहि कोऽपि विश्वे त्वामेव देव ! तदहं शरणं श्रितोऽस्मि ॥ ५॥ अन्येऽप्यमी हरिहरप्रमुखा जिनेंद्र ! सन्त्येव तेषु न मनो मम लालगीति। चिन्तामणावनणुदातरि वाऽऽप्यमाने कः काचखण्डमुररीकुरुते मनस्वी।। मुक्तिं न दातुमलमन्यसुरास्त्वमेव तद्दानशौण्डमतिरस्यरिवलाङ्गभाजाम् । • त्वत्सेवकोऽहमपि देव ! ततस्तदर्थी त्वामेव विश्वजनवत्सलमाश्रयामि ॥ विश्वप्रभौ सकलदातरि विद्यमाने देवे भवत्यपि परे परमार्थशून्याः । - दुर्देवतान्यपि भजन्त्यथवा विहाय द्राक्षावणानि करभाः कलयन्ति निम्बम् ॥ ८॥ - त्वदर्शने भवति भास्वरधर्मवृद्धिधर्मप्रवृद्धिवशतस्तव दर्शनं च। . स्वर्भूर्भुवःप्रणतपादपयोरुहेत्यन्योन्याश्रयं मम निराकुरु देवदेव ! ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy