________________
१४८
श्रीजैनस्तोत्रसन्दोहे [ श्रीभुवनसुन्दर
परिभ्रम्य भीमं भवारण्यमापं सरस्वत्युपान्तं विभो ! ते दुरापम् । अपामागमं चामृतं यद्वरीयस्ततो मे पदं निर्वृतेन दवीयः ॥३६॥ सुधावर्षिणी वक्त्रचन्द्रप्रभा ते सदा भासमाना स्मृता सुप्रभाते । मनो मोदयन्मे परं दृक् चकोरस्तदा नाप तृप्तिं विषादः स घोरः ॥ तवाज्ञामहं मौलिमौलिं सयत्नं परागं पदाम्भोजयोर्भालरत्नम् । गुणोत्कीर्त्तनं कण्ठभूषामपारं स्मृतिं नाथ ! दध्यामुरस्तारहारम् ॥ प्रपा शीतला ते कृपा जीवलोकेऽभ्रमं त्वत्समं यत्परं नालुलोके । मनः पापतापाध्वखेदावभग्नं जगत्रातरत्रात एवाद्य, लग्नम् ॥ स्मृतौ मानसं निर्मलं मन्यमानः प्रभोदर्शने दर्शने स्वे पुनानः । नतौ भालदुर्वर्णवल्लीं लुनानः स्तुतौ स्यामहं वावदूकाभिधानः ॥४०॥ पुरो दह्यमानागुरुस्तोमधूपभ्रमद्धूममालोक्य रूपैकभूप ! | तवेन्दोवरश्याममूर्त्तेर्हताशः कलिर्देशनाशं ननाश श्रिताशः ॥ ४१ ॥ सतीवास्ति रत्नत्रयी रागरोषादिभिर्दस्युभिर्मुष्यमाणापदोषा । प्रमत्तस्य मे त्वद्विधेयस्य तारं पुरः पूत्करोम्येष ते तामवारम् ॥४२॥ भवेच्चेन्मुखे लोललोलासहस्रं तथा जीवितं पूर्वकोटीरजस्रम् । स्तर्वैर्नव्यनव्यैः स्तुवे चेदुदारं ततोऽपीश ! तृप्तो मुदामस्मि नारम् ॥ प्रकृष्टाणवः सन्ति यावन्त एते त्रिलोकीगता मोघितानङ्गहेते ! । तवांही प्रणन्निर्ध्नि तत्संख्य वारं ततोऽपीश ! तृप्तो मुदामस्मि नारम् || एवं देवाधिदेवं प्रतिदिनमपि यो जीरिकापल्लिरानं
पार्श्व स्तौति त्रिसन्ध्यं त्रिदशविटपिनं भक्तिभाजामवन्ध्यम् । विश्वा विश्वाद्भुतास्ता नवनिधिरुचिरा ऋद्वयः सिद्धयो वा तस्योत्सपैति पुंसः सपदि जगति याः श्रीमहेन्द्रस्तवाहः ॥ ४५ ॥