________________
श्रीमनस्तोत्रसन्दोहे
श्रीसिद्धान्तप
नाथ ! ते पदपयोजदर्शनं पूर्वपुण्यविभवेन यो जमः । दर्शनं सुपदताप नाथते पूर्वपुण्यविभवेन तासु न ॥ १४ ॥ [ द्विपादगूढम् ]
.१४२
सन्दोहापोहकारी मदमदनगजे केशरी सारवाक्यो निर्वाणं सम्प्रयातो वृजिनगणभवामापदां पिष्टिसज्जः ।
यो नित्यं वन्द्यमानः सुरनरविसरैर्नागचिन्हः परघ्नो नन्द्याद् व्याधिप्रमन्था मुकुरसममुखः पार्श्वराट् कृष्णतेजाः ॥ १५॥
[ श्लोकगूढम् ]
श्लोकश्चायम् -
संसारवासनिर्नाशकरणं परमं जिनम् ।
यो वन्दते सकृदपि स निधिः सुखसम्पदाम् ॥ १६ ॥ इत्थं मया कम्रकवित्वपङ्क्तिकर्पूरपूरैर्महितः सुयुक्तिः । जीरापुरीशः सुखमातनोतु स्वकीयसिद्धान्तधियं धिनोतु ॥१७॥ ॥ इति गुप्तभेदैः श्रीजयराजपुरीशपार्श्वजिनस्तवनम् || कृतं श्रीपूज्य श्री जिनभद्रगणिशिष्येण पं० सिद्धान्त रुचिगणिना ॥