SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ श्रीजन स्तोत्रसन्दोहे जीवाजीवादिपदार्थसार्थनिर्भासकं निरावरणम् । सकलं केवलमतुलं प्राप्याभूत् सर्ववेदी यः ॥ ३ ॥ वचनातिशयैः पञ्चत्रिंशतालङ्कृतं य इह वचनम् । साष्टगुणं द्वात्रिंशदोषैर्विकलं कलं वदति ॥ ४ ॥ सेन्द्राः सुरा भुवनपा ज्योतिष्का व्यन्तराः सपरिवाराः । सव्यापाराः साराः सेवन्ते यच्चरणकमलम् || ५ ॥ ११४ [ श्रीजिनभद्र मूलातिशया एते चत्वारो यस्य जगति राजन्ते । अपरेऽपि चतुस्त्रिंशत् सङ्ख्याः ख्याता सकललोके ॥ ६॥ चत्वारः सहजाता एकादशघातिकमैघातोत्थाः । एकोनविंशतिरथो देवकृताश्चेति सर्वेऽपि ॥ ७ ॥ इत्थं श्रीअश्वसेनान्वयजलधिसमुल्लासचन्द्रोपमानः प्रोद्यन्मोहान्धकारप्रशमनविधये सूर्य तुल्योपमानः । नूतः सर्वादभुतेनातिशयगुणगणेनेह पार्श्वो जिनेन्द्रः सम्पत्तिं वस्तुनोतु प्रसुमरजिनभद्रानुगां सोऽस्तन्द्रः ॥ ८ ॥
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy