SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ विरचितम् ) श्रीपार्श्वनाथस्तोत्रम् । दष्टकसर्वाङ्गगतं पद्ममिदं ध्यायतोऽमृतप्लवहम् । कुर्याद् विषापहारं प्रणवाद्यैः पञ्चभिर्वर्णैः ॥ २० ॥ वृत्तिः । भूयोऽपि फलमाह दष्टक-दष्टकस्योपरि सर्बाङ्ग गतं इदं पद्म अमृतप्लवहं ध्यायतोध्यायमानस्य विषापहार-विषक्षयं कुर्यात् । प्रणवाद्यैः-ॐकारपूर्वैः पञ्चभिवर्ग:-अक्षरैः । पञ्चेति सङ्ख्यां कुर्वन् पद्मनामचतुरक्षरं सूचयति-' तं च रकुवलय' मिति । अनेन व्यस्तसमस्तेनानै कथा कर्म कुर्यात् । कुंवत् वलय कुवलयं कुवलयमेव च वलयं च कुवलयवलयं यन्त्रं, तत्तु विचिन्तयेत् ॥ किं तद्वर्णचतुष्टयेन वनजं वर्गस्त्रिभिर्भूषणं ___ आद्यैकेन मही 'द्वयेन विहगो २मध्यद्वये प्राणदम् । व्यस्ते गोत्रतुरङ्गचारि कुसुमं प्रान्ते च सम्प्रेषणं ये जानन्ति विचक्षणा भुवि नरास्तेषामहं किङ्करः ।। कृत्त्वा पूजां जिनेभ्यो दधिफलनिकरैर्धान्यपगन्नपूरैः शुभ्रवस्त्रैः सुपुष्पैरनुगतनिजभूश्चन्दनेनानुलिप्त्वा (प्तः) । दत्ताक्षः पञ्चवर्णैः कुसुमशरशतैर्जापमेतद् विदध्या उन्मन्त्रः सिद्धस्ततोऽसौ विलसति भुवने पक्षिराजेव नागैः ॥ व्यस्तसमस्तं०- मन्त्रोपसंहारमतस्तत्त्वकथनात् करोति--व्यस्तक्रमेण पञ्चभिर्वर्णविपति वक्ष्यमाणं बहुधा-अनेकप्रकारैः परिकल्प्य जिना. भिधानाक्षरसहितैस्तैर्विपतिवणैः सर्वमपि पदं-मन्त्रबीजं तत् सर्वविषमथनम् । विपति दीर्घकलायुक्तं कृत्वान्तरितो दलेषु विन्यस्तं मध्येषु तत्समन्तात् । ॐ नमो भगवते पार्श्वनाथाय क्षि हा पह्रीं ॐहूँ स्वाहा हा हा अष्टशतजापात् सिद्धयति । [त्रयोदशं यन्त्रम् १३ ] पुनश्च - क-ख । २ °मध्ये बलप्राणदम् क-ख। यातः सिद्धि° स्व.। .
SR No.090207
Book TitleJain Stotra Sandohe Part 02
Original Sutra AuthorN/A
AuthorChaturvijay
PublisherSarabhai Manilal Nawab
Publication Year1936
Total Pages580
LanguageSanskrit
ClassificationBook_Devnagari, Devotion, & Worship
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy